________________
१०० शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थातसमुदायलुगैवैष्टव्यो लोलुवादिसिद्धये च सूत्रमारम्भणीयमिति । अत्रो. च्यते, लोलुवादिषु गुणस्तावन्न भवति स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्य सत्त्वेन स्थानिवद्भावात् । अत एव हि "न पदान्त" (पा. सु०१-१-५८) इति सूत्रे सवर्णग्रहणं कृतम् । 'शिण्ढि' इत्यादावनुस्वार. स्य स्थानिद्वारकमनादिष्टादचः पूर्वत्वमाश्रित्य तस्य सवर्णे कर्तव्ये श्रसोरल्लोपस्थ स्थानिवद्भावो मा भूदिति । नन्वनादिष्टादचः पूर्वत्व. स्य शास्त्रीयकार्यत्वाभावात्कथमतिदेश इति चेत् ? अनादिष्टादचः पू. पत्वापेक्षे "अचः परस्मिन" (वा००१-१-५७) इत्यतिदेशे कर्तव्ये "स्थानिवदादेश' (पासू०१-१-५६) इत्यस्य प्रवृतिसम्भवात् सवर्ण. ग्रहणव्याख्यावसरे सबैरित्थमेवोपपादितत्वाच्च । ननु योत्रादेश उवङ् सोनादिष्टादचः पूर्वतां स्थानिद्वारा कथञ्चिल्लभतां न तु तस्येह कि. श्चित्कार्य विधीयते येनाल्लोपः स्थानिवत्स्यात् । यस्य च कार्य विधीयते उकारस्य नासावादेशः येन स्थानिद्वाराऽपि पूर्वतां लभेत । सत्यम् , 'सर्वे सर्वपदादेशाः' इत्याश्रयणास्थान्यादेशिभावस्तावदर्थवति वि. श्राम्यति । अत एव "एरुः" (पा०सू०३-४-८६) इत्यस्य तेस्तुरिति पर्यवसितार्थमाश्रित्य स्थानिवत्सूत्रेणैव सिद्धत्वादेकदेशविकृतस्योप. सङ्खघानं नारब्धव्यमिति वक्ष्यते । अत एव च स्थानिवदित्युको सम्बधिशब्दत्वादेवादेश इत्यस्य लाभे सिद्ध पुनरादेशग्रहणमानुमानिक स्याप्यादेशस्य परिग्रहार्थमिति वक्ष्यते । एवञ्चहापि लोलू इत्यस्य लो. लुप इत्यादेशः, स चानादिष्टादचः पूर्वः स्थानिवद्भावात् । तस्य च लो. लोप इत्यादेशे कार्येऽल्लोपः स्थानिवदिति युक्तमेव । किश्च, "शाजनो. र्जा" (पा०४०७-३-७९) इति "रीङ् ऋतः” (पा०सू०७-४-२७) इति च सूत्रे दीर्घोच्चारणेन "अङ्गवृत्ते पुनर्वृत्तावविधिनिष्ठितस्य" (प०भा०९३) इति परिभाषा ज्ञापयिष्यते : तेनोवाङ कृते गुणो न भविष्यति । 'दरी. दृशः' इत्यत्र गुणो न भवति प्रतिपदोक्तस्याङो ग्रहणात् । 'अदर्शत्' इति यथा। यङस्त्वकार उपदेशवेलायां न प्रत्ययः किन्तु तदवयवः, य. कारे लुप्ते तु नासो ङकारविशिष्टो न वा श्रूयते । किन्तु तकगोचर. स्वाल्लाक्षणिकवद्विलम्बितोपस्थितिकः । नन्वेवमनङीति पर्यदासेऽप्य. स्याग्रहणात् 'जङ्गमः' इत्यत्राल्लोपः स्यादिति चेत् ? न, अनङीति पर्य। दासेनाङ्सदृशे औपदशिके अजादौ श्रूयमाणाजादौ वोपधालोपविधा. नात् । अर्थवानेवाणविधौ गृह्यते इति तु न सम्यक् विकरणानाम. नर्थकत्वात् । यत्तु 'देद्यः' इत्यत्र युट् स्यादिति ! तन्न, अनुबन्धनिर्दे. शात । तदुक्तम् -