________________
विधिशेषप्रकरणे गुणवृद्धिनिषेधसूत्रम् । नास्त्येव ततः प्रागेव लोपात्। सोयमसत्कथं प्रत्ययतां लभेत ? तल्लोपः स्य स्थानिवद्भावेन प्रत्ययत्वमिति चेत् ? स्थानिनि दृष्टं हि कार्य तद्वद तिदेशेन लभ्यते, न तु तत्राष्टमपि ।
अत्राहुः-तत्र सम्भावितमात्रमतिदिश्यते । यदि हि लोपस्य स्थानि. भूतो ऽकार इह लुप्तेऽपि यकारे तिष्ठत्तर्हि प्रत्ययतां लभेतोवङादिकं च प्रवर्तयेदिति कथं नातिदेशः । वनिषेधश्चेह लिङ्गम् । स हि यातेय. ङन्ताद्वरच्यल्लोपयलोपयोः कृतयोः स्थानिवद्भावेन "आतो लोप इटि च" (पासू०६-४-६४) इत्यालोपो मा भूदित्येतदर्थ क्रियते । स्थानिनिदृष्टस्यैवातिदेशे तु किन्तेन ? न हि 'या-या-य' इत्यस्यामवस्थायामा. तो लोपस्य प्राप्तिः अनजादित्वादिति दिक् ।
नन्वेवं 'चेक्षियः' 'तोष्टुवः' इत्यत्र "अन्तरङ्गानपि" (प०भा०५२) इति न्यायेनाकृते एव "अकृत्सार्वधातुकयोः" (पासू०७-४-२५) इति दी. घे यङो लुक् । ततोऽल्लोपस्य स्थानिवद्भावे सत्यपि चेक्षि अ अ तो. टु अ अ इति स्थान्यकारेण सह लघूपधमङ्गमच्प्रत्ययपरं जातमिति ल. घूपधगुणः स्यादेव । सत्यम् , अन्तरङ्गावियङवङो भविष्यतः। यथाह वार्तिककार:-"शचङन्तस्यान्तरङ्गलक्षणत्वात्" (का०वा०) इति । तथाच "रिपि गतौ" (धासू०१२४।१२५) "धि धारणे" (धा सु०१२६) इत्येषां तुदादित्वाच्छे कृते 'रियति' 'पियति' 'धियति' इति भवति । 'अशिश्रियत्' 'प्रादुद्रुवत्' इति च "णिश्रि" (पासू०३-१-४८) इति च. ङीयवङो भवतः। तस्मात्पृथगल्लोपेनैव सकलनिर्वाहात् "न धातु लोपे" (पासू०१-१-४) इति सूत्रन्नारम्भणीयम् । न चैवं 'मरीमृजः' इत्यत्र "मृजेरजादौ संक्रमः" (कावा०) इति पाक्षिकवृद्धिप्र. सङ्गः, हरदत्तादिमते मुख्याजादावेव तत्प्रवृत्तः, निष्कर्षे तु “यथोत्तरं मुनीनाम्प्रामाण्यात्" इष्टापत्तेः । व्यवस्थितविभाषा वाऽस्तु। अत्र वदन्तिः गुणोपधालोपयुटां न लोपालोपयोरपि प्रसङ्गात्पृथगल्लोपो लुकि वक्तुं न शक्यते । तथाहि, सर्वत्र दीर्घान्तेषु ह्रस्वान्तेषु चेयकुवङोः कृतयो. लघपधलक्षणो गुणः प्राप्नोति । न चेह स्थानिवद्भावः आदिष्टादचः पूर्वत्वात् । किश्च 'जङ्गमः' इत्यत्र “गमहन" (पा०सू०६-४-९८) इत्युप. धालोपः स्यात् । अथात्रानङीति प्रतिवेधस्तर्हि 'दरीदृशः' इत्यत्र "ऋडशोऽडि" (पासू०७-४-१६) इति गुणः स्यात् । अपि च 'देद्यः' इत्यत्र "दी। युडचि" (पासू०६-४-६३) इति युट् स्यात् । किञ्च 'स. नीसंसः' 'द ध्वंसः' "अनिदिताम्" (पा०स०६-४-२४) इत्युपधालोपः स्यान । अपि च 'यायाः' 'वाचा' इत्यादिष्वाकारली. स्यात् । तस्मा.