________________
९८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुथोहिक
विनाऽपि यलोप इति दिक। ___ इक इति किम् ? 'अभाजि' 'रागः' । "भजेश्च चिणि" (पा०सू०६-४३३) “घनि च भावकरणयोः" (पासु०६-४-२७) इत्युपधालोपे कृते वृद्धिर्यथा स्यात् । कथं तर्हि 'पापचकः' इत्यत्र वृद्धिप्रतिषेध इति चेत् ? शृणु, पापच्यतेवुलि “यस्य हलः” (पा०स०६-४-४९) इत्यत्र 'अ. हीत्' 'अमन्यीत् इत्यादिवारणाय यस्येति संघातग्रहणेऽपि "आदेः परस्य" (पा०सू०१-१-५४) इति हल्मात्रलोपे कृते "अतो लोपः"(पा० सु०६-४-४८) इति पृथगल्लोपे तस्य स्थानिषद्भावेन पापचकादौ न वृ. द्धिः । न त्विह "न धातुलोपे" (पासु०१-१-४) इति सूत्रस्य कश्चिद. पि व्यापारः । यङ्लुगन्ताण्ण्वुलि 'पापाचकः' इति भवत्येव वृद्धिः 'नोनाव' इतिवत् । एतेन 'न धातुलोप' (पासु०१-१-४) इत्यत्रक इत्य. नुवृत्ते: 'पापाचकः' इतिवन्नधातुसूत्रे 'बेभिदिता' 'मरीमृजिता' इत्युदाहसंश्च कौमुदीकारः परास्तः, पृथगल्लोपस्य न्याय्यत्वे भाष्यादिसम्मतत्वे च सति वृद्धरसम्भवात् । अत एव वृत्तिकारादयोऽप्यत्र सूत्रे ऽप्रत्यः यान्तान्येव लोलुवादीन्युदाजन्हुः। भिदिमृज्योस्तु यदि यङ्लुक तर्हि तस्यानैमित्तिकत्वाद् गुणवृद्धी स्त एव, 'बेभेदिता' 'मरीमार्जिता' इति यथा । यदि तु "यस्य हलः" (पासू०६-४-४९) इत्यवयवलोपस्तहि स्थानिवद्भावादेव गुणाधप्रसङ्ग इत्युभयथापि नैतत्सूत्रोदाहरणत्वमि. त्यवधेयम् । भाष्यकारस्तु “यस्य" (पासु०६-४-१४८) इति लोप हवा. चि लुक्यपि पृथगल्लोपमाश्रित्यैतत्पुत्रं प्रत्याचल्यो। न च येननाप्राप्ति न्यायेनाचि यङो लुगतोलोपं बाधेतेति वाच्यम् , "यस्य हलः" (पा० सू०६-४-४९) इत्यत्र यस्येति योगं विभज्यातो लोप इति चानुवर्त्य य. शब्दस्यातो लोपविधानेन लुग्बाधनात् । अवशिष्टं व्यञ्जनमात्र लुको. ऽवकाशः । ततश्चाल्लोपस्य स्थानिवत्त्वादेव 'बेभिदिता' 'मरीमृजिता' 'पापचकः' इत्यादिवल्लोलुवादयोऽपि सिध्यन्तीति किं सूत्रेण ? न चैवं 'नोनाव' इत्यादावपि पृथगल्लोपापत्तिः, चकारानुकृष्टबहुलग्रहणाज्जा. यमानस्यानैमित्तिकस्य लुकोऽन्तरगतया लकारोत्पत्तेः प्रागेव समुदाये प्रवृत्तः । नन्वेवं 'चेक्रियः' 'लोलुवः' 'तोष्टुवः' इत्यादाक्ल्लोपस्य स्थानि. वत्त्वाद्यथा गुणो न, एमियङवङावपि न स्यातामिति चेत् ? सत्यम् अचमाश्रित्य न भवत एव, उक्तयुक्त; किन्तु स्थानिवद्भावलब्धमका रमाश्रित्य भविष्यतः। स हि यकारे लुप्ते प्रत्ययसंशकः ।
स्यादेतत् , लोलुवादिस्वकारे लुप्त यलुगिति क्रमः। तत्र यकारा. वस्थानकाले अकारण प्रत्ययत्वं न लब्धमेव । लुप्तेऽपि तस्मिन्नकारो