________________
विधिशेषप्रकरणे गुणवृद्धिनिषेधसूत्रम् । ९७ एवंधायौ रूपाणामभावोऽस्तीतिवद्रपाणि न मन्तीत्यत्राप्यस्तीत्येकवचनं स्थादित्यन्यत्र विस्तरः।
एवं कारकविभक्तेरपि क्रियायोगे सत्येव साधुत्वं न त्वन्यथाऽपीति "कारके" (पासू०१-४-२३) इति सूत्रे वक्ष्यमाणत्वाद् 'भूतले घटो ना. स्ति' इत्यादावधिकरणत्वं क्रियान्वय्येव न तु नअर्थान्वयि । तथाच सकलकारकविशिष्टक्रियायां नअर्थान्वयः । नओ द्योतकतेति निष्कृष्पक्ष तु क्रियापदस्यैव तद्विरहपरतेति सिद्धान्तः। उभयथाऽपीह गुणवृष्योः प्रतिषेधो दुर्लभ एवेति । ___ अत्राहुः-क्रिययैव सह विधेरिव निषधस्यान्वयः शाब्द इति सत्य. मेव, किन्तु क्रियैव केति संशये त्वदुक्तरीत्या सन्निहितापीपदोपस्थित तिरिह न सम्बध्यते । तथाहि सति “दीधीवेवीटाम्" (पासू०१-१-६) इति सूत्रस्य व्यर्थतापतेः । न हि तोक्परिभाषाऽलोन्त्यपरिभाषयोः फले विशेषोऽस्ति । एवं स्थिते “अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्ति" इति प्रातिपदिकार्थसूत्रे वक्ष्यमाणरीत्या 'भवतः' इत्यस्योपस्थितस्य गुणवृद्धी इत्यादिभिरन्वितस्य निषेधान्वये सति गुणवृधोरभावः फलि तो भवतीत्येतावता गुणवृद्धयोनिषेध इत्युच्यते । यथाऽऽघाराग्निहोत्रा धिकरणे (जैन्या०२-२-५) प्रतीतितः सर्वोऽपि विशिष्टविधिरेव, ता. त्पर्यतस्तु कश्चिद् गुणविधिरिति सिद्धान्तितं, तद्वनिषेधेऽपि बोध्यं न्यायसाम्यात् । अत एव हि विधिनिषेधयोर्वाक्यार्थगोचरतेत्यभियुक्ताः। तस्मात् 'लोलुवः' 'पोपुवः' 'मरीमृजः' इत्युदाहरणं सिद्धम् । प्रत्युदा. हरणं तूच्यते-धातुलोप इति किम् ? आर्द्धधातुके विधिनिषेधाभ्यां षोडशिग्रहणाग्रहणयोरिव गुणवृद्ध्योर्विकलो मा भूत् । आर्द्धधातुक इति किम ? "तुर्वी थुर्वी दुर्वी धुर्वी हिंसायां" (धा.सू.५७११५७२।५७३।५७४) "मुी मोहसमुच्छ्राययोः" (धा.सु. २१२) एभ्यो यङ्लुगन्ते. भ्यस्तिबादौ सार्वधातुके पिति परे 'तोतोर्ति' 'मोमोर्ति' इत्यादौ निषे. धो मा भूत् "राल्लोपः" (पासू०६-४-२१) इति च्छ्वोर्लोपस्य गुणस्य चैकनिमित्तकत्वात् । इदं च राल्लोपे डिब्रहणाननुवृत्तिपक्ष. माश्रित्योक्तम् । तदनुवृत्तिपक्षे तु 'तोतीमि' इत्याद्युत्तमपुरुषैकव. चनउदाहरणं बोध्यम् , अनुनासिकादिप्रत्ययत्वेन तत्र राल्लोपप्रवृत्तेः । ननु 'तोतोति' इत्यादि प्रागुक्तमप्युदाहरणसस्तु । रालोपस्याप्रवृत्ताववि "लोपो व्योः" (पासू०६-१-६६) इति लोपादिति चेत् ? न, तस्य वर्ण. मात्रनिमितकतया गुणेन सहकनिमित्तकत्वाभावात् । न हि तत्र प्रत्य. पग्रहणं तदाक्षेपकं वा किञ्चिदस्ति । अत एव गौधेरादिषु प्रत्ययपरतां
शब्द. प्रथम. 7.