________________
९६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिके
न्यायाश्च । अन्यथा 'दधति' इत्यादावन्तरकत्वात् "झोन्तः" (पासू० ७-१-३) इत्यन्तादेशः प्रवर्चेत । न च श्लौ द्वित्वे चैवंकृते अन्तादेशस्य स्थानिवद्भावेन "अदभ्यस्तात्" (पासू०७-१-४) इत्यस्य प्रवृत्तिर स्त्विति वाच्यम् , अल्विधौ स्थानिवद्भावासम्भवात् । किञ्च, "समर्था. नां प्रथमाद्वा" (पा सु०४-१-८२) इति सूत्रे "अकृतव्यूहाः पाणिनीयाः" (प०भा०५६) "कृतमपि शास्त्रं निवर्तयन्ति" इति शापयितुं समर्थग्रह. णमिति वक्ष्यते । द्वे एते परिभाषे समानफले इति च तत्रैव स्फुटी. करिष्यते । तथा चेहापि पूर्व गुणो न क्रियेत, कृतोऽपि वा निवर्तेत 'जग्मुषः' इत्यादाविडादिवत् । तस्माद्धातोर्लोपो यस्मिन्निति बहुव्री. हिरेव साधुः । एवं हि सति लोपस्य गुणवृद्ध्योश्चैकनिमित्तकत्वं लभ्यते इति न कश्चित्पूर्वोक्तदोषः।।
स्यादेतत् , आरभ्यमाणेऽप्यस्मिन्सूत्रे 'लोलुवः' इत्यादौ गुणो दुर्वा. रः । तथाहि, इह सुत्रे "ङ्कितिच" (पासु०१-१-५) इति सूत्रे च निषेध्यं किमित्याकालायां पूर्वत्र निर्णीता इक्पदोपस्थितिरेव सम्बध्येत-धात्वं. शलोपनिमित्ते आर्द्धधातुके इक्पदं नोपतिष्ठते । ततश्च 'बेभिदः' 'मरीमृजः' 'भिन्नः' 'मृष्टः' इत्यादौ व्यञ्जनस्य गुणवृद्धिप्राप्तिः परमेतस्य प्रघ. ट्टकस्य फलं स्यात् । लोलुवादौ तु स्यादेव गुणः। न च परिभाषां प्रति शेषिभूततयाऽर्थतः प्रधानयोर्गुणवृधोरेव निषेधोऽस्त्विति वाच्यम, शाब्दबोधे शाब्दप्राधान्यस्यैवान्वयनियामकताया उचितत्वात् । नहि 'राजपुरुषमानय' इत्यादावर्थतः प्रधानभूतोऽपि राजा आनयनेनाऽन्वेति, अपि तु पुरुष एव । प्रकृते च शाब्दं प्राधान्यं वाक्यार्थभूतायाः पदोप. स्थितेरेव, कारकविशिष्टा क्रिया वाक्यार्थ इति सिद्धान्तात । आह च
साकाढावयवं भेद परानाकाङ्क्षशब्दकम् ।
कर्मप्रधानं गुणवदेकार्थे वाक्यमुच्यते ॥ इति ।। किश सिद्धान्ते प्रसज्यप्रतिषेधे सर्वत्र क्रिययैव सह नोऽन्वयो न तु नामार्थेन । तदुक्तम्
प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् । इति । अत एव पुरुषवचनयोरसङ्करः । अन्यथा हि 'घटो नास्ति' 'त्वं ना. सि' अहं नास्मि' इति पुरुषव्यवस्था न स्यात् । घटाभावस्त्वदभावो मदभावश्चास्तीतिवत्सर्वत्र प्रथमपुरुषापत्तेः न हि परमते 'त्वं नासि' 'त्वदभावोऽस्ति' इत्यनयोरर्थे कश्चिद्विशेषः, नार्थ प्रति प्रथमान्तपदोपस्थापितस्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्येन संसर्गेण प्र. कारताभ्यपगमेऽपि यष्मत्सामानाधिकरण्यविरहस्याविशिष्टत्वात ।