________________
विधिशेषप्रकरणे गुणवृद्धिनिषेधसूत्रम्। ९५ स्वादिति हरदत्तेन वक्ष्यमाणं विरुध्यते, तथाच बहिरङ्गस्यासिद्धताबले. न 'प्रेद्धम्' इत्यादिसिद्धिरिति प्रतिपादनपरमिहत्यं भाग्यमपि विरुध्यत। तस्माद्यत्रोत्तरकालप्रवृत्तिके अच . आनन्तर्य तत्र बहिरङ्गपरिभाषा न स्यादिति कैयटसम्मत एव "नाजानन्तर्यः (१०भा०५१) इत्यस्यार्थः साधुः । 'पचावेदम्' इत्यादौ हि पूर्व गुणप्रवृत्तिः । तत्र चाजानन्तर्याश्रयणेऽपि गुणोत्तरप्रवृत्तिके "एत ऐ" (पा०सू०३-४-९३) इत्यत्र तदनाश्रयणाधुक एव बहिरङ्गतयोद्धारः । 'उपेद्धः' 'प्रेद्धः' इत्यादौ तु गुणं प्रापय्य निषेधः कार्य इत्युत्तरकालप्रवृत्तिको निषेधः । तत्राजानन्तर्या. श्रयणाभावाद्वहिरङ्गपरिभाषया सिद्धमेवैतत् । अतोऽनत्यं भाज्यमपि सङ्गच्छते। ___ ननु "षत्वतुकोरसिद्धः" (पा००६-१-८६) इति सूत्रेएषा परिभाषा झापयिष्यते । तत्र च 'कोऽसिचत्' 'कोऽस्य' इत्यादौ प्रथमप्रवृत्तिके "ए. ङः पदान्ताद" (पासू०६-१-१०९) इत्यस्मिन्नजानन्तये न तूत्तरकालप्र. वृत्ते षत्वेऽपीति कथं कैयटमतं समर्थनीयम् । तस्माद्यत्रान्तरङ्ग बहिः रहे वा अचोरानन्तर्यमिति हरदत्तोक्तरीतिरेव शरणीकर्तव्येति चेत् ? न, कैयटमते अचोरिति द्वित्वस्याविवक्षया सर्वसामञ्जस्यात् । अस्ति झुत्त. रकालप्रवृत्तिके षत्वे अच आनन्तर्याश्रयणम् , इणः परस्य सस्येत्युके। एवञ्च प्रथमपक्षे 'प्रेद्धः' इत्यादौ दोषाभावेऽपि (१)भेचते' इत्याद्यसि धिरेव दूषणमिति दिक् ।
द्वितीयपक्षे तु यत्किञ्चिनिमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात् । ततश्च "क्नूयी शब्दे” इत्यस्माणिचि पुकि यलोपे छते पुगन्तलक्षणो गुणो निषिध्येत । तथाच 'क्नो. पयति' इति न सिध्येत् । यदि तु "घेले कोपेः, (पा०सू०३-४-३३) इति निर्देशाद् गुणस्तहीहापि 'भेद्यते' इत्यस्यासिद्धिरेव दोषः ।
तृतीयपक्षे त्वार्धधातुकनिमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात् । तत्र तन्त्रावृत्याद्याश्रयणप्रयुक्तं गौरवं तावत्स्पष्टमेव लोपेन सह गुणवृद्ध्योरेकनिमित्तकत्वं च न लभ्येत। ततश्च भेद्यते' इत्यत्र भिंदर्यन्तात्कर्मणि यकि भिद्य इति स्थिते नित्यत्वाणिलोपे कृते प्रत्ययलक्षणेन णिचमाश्रित्य क्रियमाणोऽपि गु. णो निषिध्येत । न च णिलोपात्प्रागेवान्तरङ्गत्वाद् गुणोऽस्त्विति वाच्यम् ,विभज्यान्वाख्यानपक्षे तदसम्भवात् "उपसंजनिष्यमाणनिमि. चोप्यपवाद उपसंजातनिमित्तमप्युत्सर्ग बाधते'' (१०भा०६५) इति (१) मियतेणिचि ततः कर्मणि लटो रूपं बोध्यम ।