________________
९४
शब्द कौस्तुभप्रथमाध्याय प्रथमपादचतुर्थाहि के
-
न धातुलोप आर्द्धधातुके (पा०स्०१-१-४) । धात्वंशलोपनिमित्ते आर्द्धधातुके परे तन्निमित्तिके गुणवृद्धी इको न स्तः । 'लोलुवः' 'पो. पुवः' 'मरीमृजः' । लोलुयादिभ्यो यङन्तेभ्यः पचाद्यचि कृते "यङोऽचि च" (पा०सु०२-४-७४) इति यङ्लुकि लुङ्निमित्तभूतमचमेवाश्रित्य प्राप्ते गुणवृद्धी निषिध्येते । यद्यपि कृत्स्नस्य धातोरपि कचिल्लोपोऽस्ति। तद्यथा, "दुरीणो लोपश्च" (पा०सू०१-२-१८७) दुःशब्दे उपपदे इणो धातो रक् प्रत्ययो भवति धातोश्च लोपः दुःखेन ईयते प्राप्यते दूरमितिः तथाप्येवंविधे विषये गुणवृद्ध्योः प्राप्तिविरहान्निषेधवैयर्थ्यम् । अतोऽत्र धातुशब्देन तदेकदेशो लक्ष्यते ।
1
,
धातुलोप इति च यदि षष्ठीतत्पुरुषः स्यात्तदार्द्धधातुकग्रहणं लोप• विशेषणं वा गुणवृद्ध्योर्विशेषणं वा तन्त्रावृत्यादिभिरुभयविशेषणं वेति त्रयः कल्पाः । तत्राद्ये पक्षे आर्द्धधातुकनिमित्तके धातुलोपे सति य त्किञ्चिन्निमित्तिके गुणवृद्धी न भवत इति सूत्रार्थः स्यात् । ततश्च प्रपू· र्वादिन्धेः कप्रत्यये तन्निमित्तके नलोटे च सति 'प्रेद्ध:' इत्यत्र प्राप्नुव श्राद्गुणोऽपि निषिध्येत । यो हि द्वयोः षष्ठीनिर्दिष्टयोः स्थाने भवति, लभते ऽसांवन्यतरतो व्यपदेशमिती स्थानिकत्वस्यापि सत्त्वात् । न चैवमपीग्लक्षणत्वविरहान निषेधः लैगवायने ओर्गुणस्येवेति वाच्यम् । नह्यस्मिन्सूत्रे इक इत्यस्य स्वरूपपरतायां प्रमाणमस्त्युत्त (१) रसूत्रे तु चकार इतिशब्दार्थकः प्रमाणमित्याहुः ।
अस्तु वाऽर्थाधिकाराश्रयणबलेनेहापीक इति स्वरूप परं तथापि 'भे द्यते' इत्यादौ गुणो न स्यादिति तृतीयपक्षे वक्ष्यमाणो दोष आद्यपक्षद्व येऽप्यस्त्येवेति बोध्यम् । ननु 'उपेद्धः ' 'प्रेद्धः' इत्युदाहरणस्येहा तिस म्भव एव नास्ति । तथाहि, "पूर्व धातुः साधनेन युज्यते" इति म 'इद्धम्' इत्यत्र नलोपोऽन्तरङ्गः प्रथमोपनतक्तप्रत्ययापेक्षत्वात् । "पूर्व धातुरुपसर्गेण " इति दर्शने तु गुणोऽन्तरङ्ग, उभयथाऽपि गुणो भवि व्यति बहिरङ्गस्य गुणश्यासिद्धतया निषेधायोगात् बहिरङ्गस्य निषेधस्यासिद्धौ गुणप्रवृत्तेर्निर्बाधत्वाच्च । सत्यम्, “असिद्धं बाहेरङ्गमन्तरङ्गे” (प०भा०५०) इति परिभाषा नेह प्रवर्त्तते "नाजानन्तर्ये बहिष्ट्वप्रक्ल प्तिः” (प०भा०५१) इति निषेधात् । यत्रान्तरङ्गे बहिरङ्गे वाऽचांरानन्तर्य - माश्रीयते तत्रैषा परिभाषा नेति व्याख्यानादिति हरदत्तानुयायिनः । किन्त्वस्मिन्पक्षे "एत ऐ" (पा०सु०३-४-९३) इति सूत्रे 'पचावेदं' 'पचा मेदम्' इत्यादौ पत ऐत्वं कुतो नेत्याशङ्क्य बहिरङ्गत्वेन गुणस्यासिद्ध
(१) "अचश्च (पा००१-२-२८) इति सूत्रे इत्यर्थः ।