________________
विधिशेष प्रकरणे इक्परिभाषासूत्रम् ।
९३
-
तच्छेषादिष्वन्यतमपर्यवसानं न तु क्रोष्ट्रीयमतस्यावकाश इति स्थितम् । तस्मात्पदोपस्थापनमिति सप्तमः पक्षः सिद्धान्तसम्मतः । तथाहि, इक इति षष्ठ्यन्तानुकरणम्, न तु संज्ञिपरम्, “स्वरूपम् " [पा० सू०१-१-६८ ] इति वचनात् । न च "अशब्दसंज्ञा " ( पा०सू००१-१-६८) इति निषेधः, षष्ठयन्तस्यासंज्ञात्वात् । तदयमर्थः यत्र ब्रूयाद्गुणो भवति वृद्धिर्भवतीति तत्रेक इति षष्ठ्यन्तमुपतिष्ठते इति । तस्य च पदै - कवाक्यतयाऽन्वयो ऽन्तरङ्गोऽलोन्त्यपरिभाषा तु विधिवाक्येष्ववान्तरवाक्यार्थे बुध्वा तदेकवाक्यतया सम्बध्यते इति तदन्वयो बहिरङ्गः । ततश्च " जुसिच" (पा०सू०७-३-८३) इत्यादाविकोऽङ्गस्येति सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वादिकाऽङ्गे विशेषिते स्थाषष्ठी न विहितेति भवत्येवाऽलोन्त्यपरिभाषोपस्थितिः । “मिदेर्गुणः" ( पा०सु०७ - ३-८३) इत्यादौ तु सामानाधिकरण्यान्वयस्यासम्भवान्मिदेरिक इति वैयधिकरण्येनान्वये सति स्थान षष्ठीविरहादलोन्त्यपरिभाषा नोपतिष्ठते । न च मिदेरङ्गस्येत्यनयोरवयवषष्ठीत्वेपीक इति स्थानषष्ट्य स्त्येवेति वाच्यम्, न ह्येषाऽलोन्त्यपरिभाषोपस्थितावुपयुज्यते, अल्समुदायात्मकस्थानिनः परभूताया एत्र षष्ठयास्तदुपस्थापकत्वात्, इकश्चाल्रूपत्वात् । तथा चालोन्त्यपरिभाषा इक्परिभाषानन्तरोपस्थितिका न तु तया सह युगपदुपतिष्ठते येनाविशेषादुभयोर्निवृत्तिः स्या दिति सकलेष्टसिद्धिः । तच्छेष तदपवादपक्षयोरपि दूषणमुद्धर्त्तु शक्यमित्युक्तमेव ।
तदिह सप्तपक्षीमध्ये पक्षत्रयं दुष्टमेव । पक्षचतुष्टयन्तु साध्विति स्थितम् ।
नन्वेतत्सूत्रम् “अङ्गस्य" ( पा०सू०६-४-१ ) इत्यादिवदधिकारार्थमेव किं न स्यादिति चेत् ? एवं हि सतीकोगुणवृद्धी नेति नत्रा संयुज्यैव पठेत् । "सर्वस्य द्वे” (पा०सु०८-१-१) "पूर्वत्रासिद्धम् ” (पा०सू०८-२-१) इत्यादिवत् । न ह्युत्तरसूत्रोपस्थितिकत्वाविशेषे किंचित्संयुज्य किंचित्तु विभज्य पठितुमुचितम्, वैरूप्ये हेत्वभावात् । " प्रत्ययः " ( पा०सू०३-१-१) “परश्च” (पा.सु. ३- १-२ ) इत्यादौ तु पारार्थ्याविशेषेऽप्यसंयुज्य निर्देशो विधेयभेदान्न विरुध्यते । नापीदं विधिसूत्रम्, पुनर्गुणवृद्धिग्रहणसामर्थ्यात्, तत्प्रत्याख्यानपक्षेऽपि विशिष्टानुवृत्तिसामर्थ्यादिति दिक् । ॥ इति श्रीशब्द कौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे
तृतीयमाह्निकम् ॥
·