________________
शब्द कौस्तुभ प्रथमाध्याय प्रथमपादतृतीयाहि के
वर्णयन्ति - "हस्वस्य गुणः " ( पा०सू०७-३ - १०८) "जसि च " ( पा०सू० ७-६-१०९) इति सूत्रयोस्तावद्ध स्वेनेग्विशेष्यते । दीर्घव्यावृत्तिश्च फलम् । अथानियमे नियमकारिणी परिभाषा कथमिहोपतिष्ठताम् ? न. हिं इ. स्वस्य स्थानित्वेऽतिप्रसङ्गोऽस्ति, अकारस्य ह्यकार एव गुणो भविध्यतीति ब्रूयात् । तत्रेदं वक्तव्यम् । ह्रस्वान्तस्याङ्गस्येको गुण इति सूत्रार्थः स्यात् । ततश्च 'हे इन्द्र' 'हे उपगो' इत्यादावनन्त्यस्यापि स्यात्, 'अग्निचित्' इत्यादिकं तु विशेषणव्यवच्छेद्यं स्यात् । तथा च हस्वस्येक इत्यनयोर्न परस्परं विशेषणविशेष्यभावः । किन्त्वनयोरेकमङ्गस्य विशेषणमपरमङ्गस्य विशेष्यमिति । यद्वा, ह्रस्वस्येत्येतदङ्गस्य वि. शेषणं मा भूदित्यङ्गस्य स्थानषष्ठात्वं बाधितुमनन्त्यस्यापि गुणं सम्पादयितुमिक्परिभाषोपतिष्ठेत । एवम् "ऋतः " ( पा०सू०७-३-१९१०) "ओः” पा०सू०६-४-१४६) इत्युभयत्राप्यनन्त्यस्य गुणविधानार्थे परिभाषा स्थादेव । घिसंज्ञा तु वर्णयोरेव न तु तदन्तस्येति पक्षं गृहीत्वा "घेर्डिति” ( पा०सू०७ - ३-१११) इत्यस्य " अग्निचितः" इत्यादावतिप्रसङ्गो योज्यः । नह्यस्मिन्पक्षे ऋत ओरित्याभ्यां घेः किञ्चिद्वैलक्षण्यमस्तीति दिक् ।
९२
नन्वस्मिन्पक्षे “पुगन्त" (पा०सू०७-३-८६) इति सूत्रस्य नियमार्थस्वादु 'ईहिता' इत्यादौ न दोष इति चेत् ? न, यदि हि सार्वधातुकार्द्धधातुकयोर्लघूपधस्यैवेति नियमस्तर्हि ह्रस्वाद्योर्गुणे दोषस्तदवस्थः । यदि तु लघूपधस्य सार्वधातुकार्द्धधातुकयोरेवेति नियमस्तथापि 'ईहिता' इत्यादी दोष एव । अथावृत्या द्विविधोऽपि नियमस्तर्हि 'अनेनि - जुः' इत्यत्र दोषः । न ह्येतन्नियमद्वयेनापि वारयितुं शक्यं, लघूपधत्वात्सा र्वधातुकपरत्वाश्च | 'हे बुद्धे' 'बुद्धयः' 'पिचवे हितः पिचव्यः "उगवादिभ्यो यत् " ( पा०सु०५-१-२) 'बुद्धये' 'वृद्धये' इत्यादावनुपधाभूनेष्व तिप्रसङ्गस्तु दुर्वार एवेति तावद्वार्त्तिकहृदयम् ।
वस्तुतस्त्वङ्गाक्षिप्तेन प्रत्ययेन श्रूयमाणेन च जुसादिना इको विशे षणात्सकलदोषनिरासे सति तदपवादपक्षोऽपि समर्थयितुं शक्यते एव । अङ्गमेव प्रत्ययेन विशेष्यते इति गृहीत्वा परं भाग्यवर्त्तिकग्रन्थप्रवृत्तिरित्यवधेयम् ।
अस्तु तर्हि पूर्वविप्रतिषेध इति क्रोष्ट्रीयसम्मतः षष्ठः पक्ष इति चेत् १न, इक्परिभाषाया निरवकाशत्वात् । न हि परस्परपरिहारेणावकाशला भेऽसंति विप्रतिषेधः । तस्माद्यदि 'सत्यपि सम्भवे बाधनं भवति' इत्याश्रीयते तर्हि येननाप्राप्तिन्यायादपवादत्वमस्त्येव । यदि तु "असम्भवे बाध्यबाधकभावः” अस्ति चेह सम्भवो यदुभयं स्यादित्याश्रीयते तर्हि
•