________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम् ।
अय लक्ष्यानुरोधालघूपधगुणमात्रविषयकं ज्ञापकं तर्हि पदोपस्थितिपक्ष एव लक्ष्यसिद्धये समाश्रीयताम् । एवं हि सापकाश्रयणक्लेशोऽपि न भवति । कित्वेनापि पदोपस्थितिरेव शाप्यताम् । एवं हि ज्ञापकमूलकं वाक्यान्तरं न कल्प्यमिति लाघवम् । _____ अस्तु तर्हि तृतीयः पक्षा-मिदेरन्त्यस्येकश्च द्वयोरपि गुण इति । मैषम्, स्थानेयोगावयवसम्बन्धरूपस्यार्थद्वयस्य युगपदुच्चारितया षष्ठया दुर्लभत्वात् । स्थानेयोगं च विनाऽलोन्त्यविध्यलाभात् । स्थान षष्ठी हि तदुपस्थितो लिङ्गमिति वक्ष्यते । इक इत्यनेन सहावयवषष्ठी विनाऽन्वयायोगात् आवृत्त्यादौ प्रमाणाभावाच्च ।
एतेन मिदेरन्त्यस्य वेको वेति चतुर्थपक्षोपि प्रत्युक्तः, विकल्पस्याष्टदोषग्रस्तत्वाच्च ।
अस्तु तर्हि तदपवाद इति पञ्चमः पक्षः। तथाहि, गुणविधावणस्येति न स्थानषष्ठी। किन्तु इगपेक्षयाऽवयवषष्ठी । ततश्च लिङ्गाभावा. दलोन्त्यपरिभाषाया अनुपस्थितिः । अयमेव च बाधपदार्थः । यदीप. रिभाषा न भवेत्तर्हि स्थानषष्ठीत्वं तन्मूलकालोन्त्यपरिभाषोपस्थितिश्च स्यात् । सत्यान्विकपरिभाषायां तदुभयं नेत्येतावतैवापवादत्वव्यव. हारः । न हि वस्तुतो वचनेन प्रापितस्य बाधः सम्भवति शास्त्राप्रा. माण्यप्रसङ्गात् । अत एव शास्त्रतात्पर्यसङ्कोचो बाध इत्याहुः । एतेन द्वन्द्वापवाद एकशेष इत्यपि व्याख्यातम् । नत्यनुत्पन्नायां विभक्तो द्वन्द्वस्य प्रसङ्गः, किन्तु यद्येकशेषो न भवेत्तर्हि प्रत्येक विभक्तिर्द्वन्धश्च स्यात्सति त्वेकशेषे तन्नेत्येव तत्वम् । अस्मिश्च पक्षे जुसि गुणो 'अजुः हवुः' इत्यत्रेव 'अनेनिजुः' 'पर्यवेविषुः' इत्यादावपि स्यात् । “सार्वधातुकार्द्धधातुकयोः" (पासू०७-३-८४) इति गुणो 'भवति' इत्यादाविव 'इहिता' इत्यत्रापि स्यात् । तथा च वार्तिकम्-"इङ्मात्रस्येति चेज्जुसि सार्वधातुकार्धधातुकहस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधः" (काभ्वा०) इति । अत्र हस्वादीति "इस्वस्य गुणः" (पासू०७-३-१०८) "जुसि च" (पासू०७३-१०९) "ऋतोऽङि सर्वनामस्थानयोः” (पासू०७-३-११०) "घेडिंति" [पासू०७-३-१११] इति गुणचतुष्टयं गृह्यते । ततश्च 'हे अग्ने' 'अग्नयः' 'कर्तरि' 'अग्नये 'बाभ्रव्यः' इत्यत्र यथा ओर्गुणान्तं गुणपञ्चकं भवति, एवं 'हे अग्निचित् 'अग्निचितः सन्ति' 'सुकृति' 'अग्निचिते' 'सौ. श्रुत' इत्यत्रापि स्यादिति वार्तिकार्थः । यद्यपीह निर्दिष्टस्थानिकत्वात्प. रिभाषा दुर्लभा । अग्निचिच्छन्दस्य घिसंज्ञाभावाच "घेिित" (पा. सु०७-३-१११) इत्येतन प्राप्नोति, तथापि वार्तिकस्योकिसम्भवमित्थं