________________
विधिशेषप्रकरणे प्रगृह्यसंक्षासूत्रम् ।
१३७
स्यात् । तत्र प्रगृह्यस्यादेशे कृते स्थानिवद्भावेन प्रगृह्यत्वात् 'ॐ इति' इति रूपं सिद्धम् । न च "अनल्विधौ” (पा०सू०९-१-१-५६) इति प्रतिषेधः, उअ इति समुदायरूपेणाश्रयणात्। तथा च "इट ईटि" (पा० सू०७-२-२८)इति सूत्रे इट इति समुदायरूपाश्रयणाद् 'अग्रहीत्' इत्यत्र च "ग्रहोलिटि" [पासू०७-२-३७] इति दीर्घस्य स्थानिवद्भावमा. श्रित्य सिज्लोपः सिद्ध्यतीति स्थानिवत्सूत्रे वक्ष्यते । अप्रगृहास्य त्वादे
शेऽनुनासिको यण स्यात् । तथा चेष्टरूपत्रितयमध्ये 'ॐ इति' इत्येकमेव सिद्धं न त्वरं द्वयमित्यव्याप्तिः। अतिव्याप्तिश्च सानुनासिकवकारयुक्त स्यानिष्टस्यापि प्रसङ्गात । अथ प्रगृह्यग्रहणमात्रमनुषःत तदा प्रगृह्य. स्योो नित्यमादेशः स्यात्ततश्च 'विति' 'ॐ इति' इति द्वे एव रूपे स्या. तां, न तु 'उ इति' इति तृतीयम् । अथ शाकल्यग्रहणमात्रमनुवर्तत तत उमात्रस्यादेशविकल्पनाद् 'ऊँइति' 'उ इति' इति द्वयं प्रगृह्यस्य, 'विति' 'विति' इति द्वयमप्रगृह्यस्येति संकलनया रूपचतुष्टयं स्यात् । तत्र त्रित. यस्येष्टत्वेऽपि सानुनासिकवकारयुक्तमनिष्टमापतति । तस्माच्छाकल्यग्रहणं प्रगृह्यग्रहणं चेत्युभयमनुवर्तत इत्युक्तम् । इह विभक्तिविपरित णामेन प्रगृह्यस्योञ इति व्याख्यातम् । आदेशसामानाधिकरण्येन प्रगृह्यं ॐ इत्येतदादेशो भवतीति व्याख्यानेऽपि न कश्चिद्विशेष इत्यवधेयम् ।
ननु परिनिष्ठितमेव प्रयोगार्ह, परिनिष्ठितत्वं च अप्रवृत्तनित्यविध्युः हेश्यतावच्छेदकानाक्रान्तत्वम् । निहते तिङन्तादावव्याप्तिवारणायाप्र. वृत्तेति । वैकल्पिकेडागमोद्देश्यतावच्छेदकाक्रान्ते 'सेद्धा' इत्यादाव. व्याप्तिवारणायोकं नित्येति । अत एव पच्' 'लट्' इत्यादीनामलौकिकतेति सिद्धान्तः । तथाच 'उ इति' इत्येतद्रूपं न स्यादेव । अत्र हि शा. कल्यमते ऊँआदेशेन भाव्यमेव । इतरेषां मते तु प्रगृह्यत्वमेव नास्तीति चेत ? भवेदेवं यदि शाकल्यग्रहणं यथाश्रुतं स्यात्, तत्तु विकल्पमात्र. तात्पर्यकम् । तथाच भाष्यम्-"शाकल्यस्य विभाषा यथा स्यात्" इति "ऊंवा शाकल्यस्य" इति च । तथाच तत्र कैय्यट:-"शाकल्यश्रु. तेरेव फलं वाग्रहणेन प्रतिपादयति" इति, "स्मृत्यन्तरानुसन्धानद्वारेण विभाषा सम्पद्यते" इति च । यद्वा अस्तु शाकल्यग्रहणं यथाश्रुतम् । तथापि “निपात एकाज" (पा०स०१-१-१४) इत्यनेनैव सिद्धे "उत्रः" (पासू०१-१-१७) इति तावनियमार्थम् । तथा च शाकल्यभिन्नमते न प्रगृह्यतेति प्रथमसूत्रार्थः । उत्तरसूत्रेच प्रगृह्यस्योग इत्येतावतैव शाक. ल्ये लब्धे पुनः शाकल्यानुवृत्त्येतरेषामपि मते पाक्षिकः प्रगृह्योऽस्तीत्यनुमीयते । तेन 'उ इति पंसिद्धम् । अथ वोत्तरसूत्रे पुनः शाकल्या