________________
२३०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिके
अत एव सर्वादिसूत्रे “संझोपसर्जनप्रतिषेधः" इति वार्तिकं प्रत्याग क्षाणो हरदत्त आह-"संज्ञाप्रतिषेधस्तावन्न वक्तव्यः अभिव्यक्तपदार्था ये इत्येव सिद्धत्वात्" इति । यत्तु तत्र कैयटो वक्ष्यति-"प्रसिद्ध्वप्रसि. द्धिवशात्सम्भवन्नपि गौणमुख्यन्यायो नेहोक्तः। पदकार्येवयं न तु प्रातिपदिककार्येष्वित्योत्सूत्रे उक्तत्वात्" इति । तदभ्युच्चयमात्रम, युष्मदस्मदोः स्वरूपमात्राश्रयाणां कार्याणामुपसर्जनतायामिव संशायां प्रवृत्त्यापत्तेः, "युष्मधुपपदे" (पा.सु०१-४-१०५) "अस्मात्तमः" (पा० स०१-४-१०७) इत्यादावपि तदापत्तेश्चेति दिक् ।
तदेवम् 'अदोभवत' 'गोभवत' इत्यादौ "ओत्" (पासू०१-१-१५) इति प्रगृह्यसंशाऽव्ययत्वादिवद् दुर्वारेति पूर्वपक्षः पर्यवसन्नः। ___ अत्रोच्यते, पूर्वसूत्रेऽनाङिति पर्युदासादाङ्सदृशाः प्रतिपदघटिता एव निपाता गृह्यन्ते । इहाप्यर्थाधिकारेणानाम्हणानुवृत्त्या वा तथैवेति सर्व सुस्थम् । तथाच सर्वादिसूत्रे "अकारात्कारौ अनुपसर्जनत्वे सत्येव भवतः" इति प्रघट्टके "तदोः सः सौ" (पासू०७-२-१०६) इति सत्वं तहविशेषितत्वाद्रौणतायामपि स्यादित्याशय "त्यदादीनामः” (पा० सु०७-२-१०२) इत्यत्र "अनुपसर्जनात्" (पा०स०४-१-१४) इति परिः भाषयाऽनुपसर्जनानामेव ग्रहणे सिद्ध तथाभूतानामेव सत्वविधावनुव. सनान कश्चिद्दोष इति समाधत्त कयटः।
सम्बुद्धौ शाकल्यस्येतावनार्षे (पा०स०१-१-१६) । ऋषिर्वेदः "तदुक्कमृषिणा" इत्यादौ तथा दर्शनात् । संम्बुद्धिनिमित्तक ओकारो. ऽवैदिके इतौ परे प्रगृह्यो वा स्यात् । 'विष्णो इति' 'विष्णविति' । सं. म्बुद्धाविति किम् ? गवित्ययमाहेति वृत्तिकारः। एतनिष्कर्षश्च पूर्वसूत्रे उक्त एव । अनार्षे किम् ? ब्रह्मबन्धवित्यब्रवीत् । इताविति किम् ? पटोऽत्र ।
उः (पा००१-१-१७)। उञ इतौ प्रगृह्यसंक्षा वा स्यात् । 'उ इति 'विति'। __ऊँ (पासू०१-१-१८) । उञ इत्यनुवर्तते, शाकल्यस्येति, प्रगृह्य. मिति च । प्रगृह्यस्य उञ इतौ परे ॐ आदेशो वा स्यात् । दीर्घोऽनुना. सिकश्च ॐ इति । इह यधेको योगः स्यातू उञ ॐ इति, तदादेशे वि. कल्पिते रूपद्वयमेव स्यात्---ॐ इति' 'उ इति'। अतो योग विभज्य प्रगृह्य-संज्ञाऽपि विकल्पिता। एवमपि "ॐ" (पासु०१-१-१८) इति द्वितीयको यदि प्रगृह्यग्रहणं शाकल्यग्रहणं चेत्युभयमपि नानुवर्चेत, तदा उमात्रस्य नित्यमुंभावविधानात्प्रगृह्यस्येवाप्रगृह्यस्याप्यादेशः