________________
विधिशेषप्रकरणे प्रगृह्यसक्षासूत्रम् ।
सापेक्षत्वात् । तथा च "आन्महतः" (पासू०६-३-४६) इति विशि. ष्टरूपप्रहणेन विधीयमानमात्वं गौणे न भवतीति युक्तम् । इह तु "ओत्" (पा०सू०१-१-१५) इति वर्णपुरस्कारेण विधीयमाना प्रगृह्य. संज्ञा कथं गौणार्थवृत्तेनं भवेत । निपातसंक्षा तु तस्यापि मुख्यैव । मत एव संशाश्वशुरस्यापत्यं-'श्वाशुरिः' इत्यत्र "राजश्वशुराधत्" (पासु०४-१-१३६) न प्रवर्तते । "अत इस्" (पासू०४-१-९५) तु प्रवर्तते एव । अन्यथा इञो यतश्च तुल्ययोगक्षेमतैव स्यात् । अत एव 'गौर्वाहीको ब्रते' 'गां वाहीकं पाठय' इत्यादौ वृद्ध्यात्वे स्त एव तयोरपि वर्णाश्रयत्वात, "गोतः” (पा०सु०७-१-९०) इति तपरत्वमोकारान्तो. पलक्षणार्थमिति वक्ष्यमाणत्वात् । तथा च "औतोऽम्” (पा०सू०६-१९३) इति सूत्रे भाष्यकृद्वक्ष्यति-"गामित्यत्र पराऽपि वृद्धिनिरवकाशेनाऽऽत्वेन बाध्यते" इति । तत्रैव कैयटोऽपि वक्ष्यति-ओत इति सूत्रं पाठ्यम् । ओकारान्तोपलक्षणतया वा "गोत'' (पा०सू०७-१-९०) इत्ये. तद्याख्येयम्' इति । वृत्त्यादिग्रन्थेवप्येवमेव स्थितम् । ___यत्तु वदन्ति-मुख्यएव स्वार्थे सानादिमति गोशब्दो वृद्ध्यात्वे लभते । ततो वाहीकादिशब्दान्तरसन्निधानागौणताप्रतीतिः। 'गोभवत्' इत्यत्र तु गौणार्थतां विना विरेव दुर्लभ इति वैषम्यम् । तस्मात् पद. कार्ये वयं न्यायो न प्रातिपदिककार्येष्विति स्थितमिति । तच्चिन्त्यम्, वाक्यसंस्कारपक्षे वृद्ध्यात्वप्रवृत्तितः प्रागेव गौणार्थावगतेः । यत्तु कारकाणां क्रिययैव श्रोतःसम्बन्धस्तत एकक्रियावशीकृतानामरुणैकहाय. नीन्यायेन पाणिकः परस्परावच्छेदः । तथाच 'गामानय' इत्यन्वयचे. लायां न गौणार्थता, किन्तु वाहीकन सह पाणिकावच्छेदवेलायाम् । न चान्तरङ्गत्वेन प्रवृत्तः पदसंस्कारो बहिरङ्गगौणत्वप्रतीतावपि निवर्तते इति । तदपि न, नावताऽपि 'ब्रूते' 'पाठय' इति क्रियान्वयायैव गौण. ताया आश्रयणीयत्वात , कटोऽपि कर्म, भीमादयोऽपीति पक्षे कथञ्चि दुक्तिसम्भवेऽपि सामानाधिकरण्याद्भीमादेर्द्वितीयेत्येवं रूपे भाप्योक्तः पक्षान्तरे त्वदुकन्यायानवताराच्च, 'श्वाशुरिः' इत्यत्रेनोप्यभावाप त्तेश्च, शब्दप्रयोका वाहीकनिष्ठस्यैव कर्मत्वादेर्विवक्षितत्वाच्च । तस्मा. वर्णाश्रयत्वाद् वृद्ध्यात्वे इत्येव तत्त्वं, न तु प्रातिपदिककार्यत्वादिति । अत एव च "एकाच्च प्राचाम्" पा०सू०५-३-९४) इत्यादौ प्रातिपदि. ककार्यत्वेऽपि न स्मायादयः, विशिष्टरूपपुरस्कारेणैव सर्वनामसंज्ञा. विधानात् । "अभिव्यक्तपदार्था ये" इत्यपि गौणमुख्यन्यायसिद्धार्थकथनपरं, प्रसिद्धाप्रसिद्धत्वे एव हि मुख्यत्वगौणत्वे इत्यन्यत्र विस्तरः ।