________________
१३८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिके
'नुवृत्तिसामर्थ्याच्छन्दाधिकाराश्रयणेन शकलस्यैव ऋषरपत्यान्तरं गृ ह्यते । अस्मिश्च पक्षे प्रगृह्यस्योष इत्यनुवादसामर्थ्यादेव प्रगृह्यताऽपि लभ्यते यथा “ढकि लोपः" (पासू०४-१-१३३) इत्यनुवादसामर्थ्या. हुगिति दिक् । __ आदेशश्चायमनुनासिक इति निर्देशादेव व्यकम् । तथा च बहुचप्रातिशाख्यम्-"उकारश्चेति करणेन युक्तो रको पृको द्राघितः शाकलेन" (ऋ०प्रा०१-१८) इति । रक्तसंशोऽनुनासिक इति च । अत एव 'यदेतD इति पदकाराः पठन्ति' इत्यनुकरणे "यरोऽनुनासिकेऽनुना. सिको वा" (पासू०८-४-४५) इत्येष विधिः प्रवर्तते ।
ईदूतौ च सप्तम्यर्थ (पा०सू०१-१-१९) । शाकल्यस्य इताविति नि. वृत्तम् । ईदन्तमूदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यं स्यात् । 'अध्यस्यां मामकीतनू' । मामक्यां तन्वामिति प्राप्ते "सुपां सुलु" (पासू०७-१-३९) इति लुप्तसप्तमीकावेतौ । मामकी इति, तनू इतीति पदकाले कार्योदाहरणे बोध्ये । 'सोमो गौरी आधिश्रितः' इति संहिता. यामप्युदाहरणम् । ईदूताविति किम् ? प्रियः सूर्ये प्रियो अपना भवाति। अग्निशब्दात्परस्याः सप्तम्या डाआदेशः । पदकारैः प्रगृह्योग्वितिशब्द. प्रयोगस्य नियमितत्वेनेहापि पदकाले इतिशब्दप्रयोगप्रसङ्ग इति प्रत्यु. दाहरणमिदम् । सप्तमीग्रहणं किम् । धीती, मती, सुष्टुती। धीत्या, मत्या, सुष्टुत्येति प्राप्ते तृतीयैकवचनस्य पूर्वसवर्ण ईकारः । ततः "अ. कः सवणे दीर्घः" (पासू०६-१-१०९) इत्येकादेशः । न त्विह सुपो लुक हस्वश्रवणापत्तेः । अर्थग्रहणं किम् ? वाप्यामश्वो वाप्यश्वः । नद्यामातिनद्यातिः "संज्ञायाम्" (पासू०२-१-४४) इति सप्तमीसमासः। ननु सप्तम्यर्थोपीहास्त्येव तत्कथमर्थग्रहणे कृतेऽपाष्टसिद्धिरिति चेत् ? इत्थम, जहत्स्वार्थावृत्तिरिति पक्षे पदे वर्णवद्वत्तौ वर्तिपदानामानर्थक्यादीदन्तमिहानर्थकं, न तु सप्तम्यर्थवृत्तीति स्पष्टमेव । अजहत्स्वार्था. वृत्तिरिति पक्षेऽपि उपसर्जनपदं न स्वार्थमात्रे पर्यवस्यति किन्तु तत्सं. सृष्टे प्रधानार्थे । अर्थग्रहणसामचि यावानर्थः सप्तम्याऽभिधीयते आघयासंगष्टो निष्कृष्टाधिकरणरूपस्तावन्मात्रस्यह ग्रहणमिति वृत्ति. प्रविष्टेन भविष्यति । यद्यपि धाक्यवत्समासेऽपि लुप्तसप्तमीबलेनाधि. करणमात्रबोधः पश्चाद्वाक्यार्थतया संसृष्टबोध इति वक्तुं शक्यते, त. थापि सिद्धान्ते तावत् "समर्थः पदविधिः" (पासू०२-१-१) इति परिभाषानुरोधात् समासस्थले एकार्थीभाव एव सामर्थ्य, न तु व्यपेक्षा। अत एव "उपसर्जने विशेषणान्वयो न भवति शक्यैकदेशत्वात" इति