________________
विधिशेष प्रकरणे प्रगृह्यसंक्षासूत्रम् ।
१३९
द्वितीये पक्ष्यते। मीमांसकादीनामपि निषादस्थपतिन्यायेन पूर्वपदार्थ. सम्बन्धिनि लक्षणाऽभ्युपगमायुक्तवार्थग्रहणेन वाप्यश्वनद्यातिप्रभृते. ावृत्तिः । आतिः बलाका।
शरारिरातिराटिश्च बलाका बिसकण्टिका । (अ० को०२-५-२७) इत्यमरः । आद्यास्त्रयोऽपि स्त्रीलिङ्गाः बलाकासाहचर्यादिति के. चित् । वस्तुतस्तु शरार्यादयस्त्रयः पक्षिविशेषवाचका न तु बलाकाप. र्यायाः। अतो बलाकासाहचर्यमकिञ्चित्करं स्त्रीत्वं परमस्त्येव । रत्न. कोशे स्त्रीलिङ्गकाण्डे-"आटिः शरारिवरटी" इत्युक्तेः । आतेरपि त. त्साहचर्यात् ।
तपरकरणमसन्देहार्थमिति वृत्तिः । अत्र वार्तिकम्ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद्भवेत् । पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते ॥ वचनाद्यत्र दीर्घत्वं तत्रापि सरसी यदि । वापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत् ॥ अस्यार्थः-ईदूतौ सप्तमीत्येवास्तु नार्थोऽर्थग्रहणेन । अत्रोत्तरमाहलुप्त इति । संसाविधौ प्रत्ययग्रहणे तदन्तविधेरभावात् । सप्तम्या एव संशा स्यात् । लुप्तेऽपि सुपि प्रकृतिभागस्य संशासिद्धये तु कर्तव्यमे वार्थग्रहणमित्यर्थः । ननु 'सोमो गौरी' इत्यादौ विभक्तिर्न लुप्यते किन्तु 'धीती' 'मती' इत्यादाविव पूर्वसवणे कृते "अकः सवर्णे" इति दीधैंका. देशे तस्यादिवद्भावात्सप्तमीग्रहणादस्त्येव सप्तमीत्याशझ्याह-पूर्वस्येति । आडाम्भाव इति । एकादेशं वाधित्वा परत्वादाङ्गत्वाच्चाऽऽडा. मौ स्यातामित्यर्थः । तस्माल्लुगेवेति स्थितेऽर्थग्रहणं कर्त्तव्यमेवेति भा. घः। नन्वर्थग्रहणं माऽस्तु वचनसामर्थ्याच्च संज्ञाविधावपि तदातवि. धिर्भविष्यतीत्याशङ्याह-वचनादिति । यत्र दीर्घत्वं तत्रैव वचनात्स्यात् "हतिं न शुष्कं सरसी शयानम्" इति यथा । अत्र हि सरश्शदात्पर. स्य सप्तम्येकवचनस्य "इयाडियाजीकाराणामुपसंख्यानम्" (कावा०) इतीकारादेशे सप्तमी श्रूयते । तथाच 'सोमो गौरी' इत्यादौ न स्यादे. वेत्यर्थः । एतद् दूषयति-तत्रापीति । तत्रापि सप्तम्या लुगेव न स्वीका.
। यदि सरसीशब्दोऽपि वर्तते । असन्दिग्धे सन्दिग्धवचनमेतच्छा. त्राणि चेत्प्रमाणं स्युरिति यथा । अस्ति हि सरसीशब्दो "दक्षिणापथे हि महान्ति सरांसि सरस्य इत्युच्यन्ते” इति भगवदुक्के "कासारः स. रसीसरः"(अको०१-१०-२८) इत्यमरकोशाच्च । तथाच "सरस्सी परि शीलितुं मया" इत्यादि प्रयोगोऽपि दृश्यते । एवञ्च सरसीशन्दोऽपि