________________
१८. शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाहिकेनूकम् । “अन्येषामपि दृश्यते" इति दीर्घः। त्रिपुरुषेत्यत्र पात्रादित्वा. स्त्रीत्वाभावः, मूलविभुजादित्वात्कः । यतु उपपदाविवक्षया "आत. श्योपसर्गे" इति कं कृत्वा ततः षष्ठीतत्पुरुष इति, तत्तु “कर्मण्यम्" इति. सूत्रे “अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन" इति वार्तिकस्य न. दीसूत्रे स्त्रयाख्यावितिमूलविभुजादित्वात्क इति भाष्यस्य च अननुगुपम् । अत एव गङ्गाधरादिशब्दानां संक्षाशब्दत्वमिति प्राश्वः । वस्तु. तस्तु प्रथमं कर्माविवक्षायामनूकपदं व्युत्पाद्य पश्चात्कर्मसम्बन्धेऽप्य. दोषः । वार्तिकादिकं तु प्रथममेल कर्मविवक्षामाभिप्रेत्य । अन्यथा कृतपूर्व्यादिषु का गतिः १ अत एव "शक्यं च क्षुदुपहन्तुम्" इति भाज्यव्या. ख्यायां बहिरङ्गस्त्रीत्वप्रतीत्या अन्तरङ्गः पदसंस्कारो न विहन्यते इति कैयटोपि वक्ष्यति । विवक्षा च लोकप्रसिद्धनुसारिणी न तु स्वायत्तेति "विपराभ्यांजेः" इत्यादावपि पूर्व धातुः साधनन युज्यत इति पक्षमुपष्टभ्य विजयतीत्यादि नापादनीयमिति दिक् ।
तथा च ऋग्वेदे एव पठयते-"सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । अनुक्षरन्ति काकुदं सूये सुपिरामिव" इति। अस्यार्थ:-हे वरुण ! सत्यदेवोऽसि । यस्य ते काकुदं तालु काकुर्जिहा सा उद्यते उक्षिप्यतेऽस्मिन्निति काकुदम् । वदेरुक्षेपणमर्थो धातूनामनेकार्थत्वा.
। ततो घत्रय कविधानमित्याधिकरणे का, सम्प्रसारणं, षष्ठीतत्पुरुषे शकवादित्वात्पररूपम् । नुइ प्रेरणे इत्यस्मादधिकरणे कः पृषोदरा. दित्वान्नुशब्दस्य लोप इत्यन्ये । निरुकस्वरसोऽप्येवम् । सप्तसिन्धव इव सिन्धवो विभकयः । अनुक्षरन्ति ताल प्राप्य प्रकाशन्ते इत्यर्थः। अत्र दृष्टान्तः-यथा सच्छिद्रां लोहमयी प्रतिमा प्रविश्याग्निः प्रकाशते तयेति । अग्निर्हि तत्रत्यं मलं भस्मीकृत्य प्रतिमां शुद्धां करोति तथा विभक्तयोऽपि शारीरं पापमपाकुर्वन्तीति भावः। सूर्मी स्थूणाऽयःप्रति. मेत्यमरः । स्मर्यते च
सूर्मी ज्वलन्तीमालिनेन्मृत्यवे गुरुतल्पगः । इति । "अमि पूर्वः" इत्यत्र “वा छन्दास" इत्यनुवृत्तेर्यणादेशः। सुषिरामित्यत्रार्शआद्यच् अभेदोपचारो वेत्याहुः । वस्तुतस्तु “ऊषसुषिमुष्कमधोरः" इति मत्वर्थीयो रप्रत्ययः । "रन्ध्र श्वनं वपासुषिः" इत्यमरः "सर सुषिरं त्रिषु" इति च । सुष्टु स्यतीति सुषिरिति क्षीरस्वामी । गर्ने गर्नान्विते वाद्ये विशेष सुषिरं त्रिषु ।
___ इति शाश्वतः॥ इति प्रयोजनप्रपञ्चः॥