________________
फलकथनस्थआवश्यकत्वनिरूपणम् । इत्येवं विषयप्रयोजनयोरुक्तयोः सम्बन्धाधिकारिणावुक्तप्रायावेवेति पृथङ्नोक्तौ ।
इह येन प्रयोजनं पृष्टं ततोऽन्य एव तटस्थ इत्थं प्रत्यवतिष्ठते । ननु यथा 'अधी' इत्याचार्येणोक्त प्रयोजनप्रश्नमकृत्वैव वेदमधीयते, तह. दङ्गभूतं व्याकरणमप्यध्येष्यन्ते तत्कि प्रयोजनवर्णनक्लेशेनेति ? अत्रे. दमुत्तरम्, प्रायेणेदानीन्तनानामल्पायुष्कत्वाद्विघ्नबहुलत्वाच प्रधानभू. तो वेदस्तावत्पाठ्यते । तदध्ययनकाले च बाल्यात्प्रयोजनादिकं प्रष्टुमसमर्थाः शिष्या गुरुणा उपदिश्यमानं वेदं गृहन्तीति युतम् । ततो गृहीतवेदाः प्रौढिमापना विवाहाथै त्वरमाणा व्याकरणाध्ययनाय गुरु. पा प्रेयमाणा अपि न सहसा प्रवर्तन्ते । “वेदानो वैदिकाः शब्दाः सिद्धा लोकाच लौकिकाः, अनर्थकं व्याकरणम्" इति प्रत्यवतिष्ठन्ते । तान्प्रति युक्तमेव प्रयोजनादिवर्णनम् । पूर्वकल्पेषु व्याकरणशिक्षादीनि लक्षणा. नि प्रथमं पाठयित्वा तत्तल्लक्षणानुसन्धापनपूर्वकं लक्ष्यभूतं वेदं प्राह. यन्तः स्थिताः । तदा परं बाल्यावस्थायां व्याकरणपाठात्प्रयोजनप्रश्न विरहे तत्प्रतिपादनमपि न कर्त्तव्यमेवेति । यद्यपि
श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोचपञ्चमान् ।।
ततः परं तु छन्दांसि शुक्लेषु नियतः पठेत् । ... वेदाङ्गानि रहस्यं च कृष्णपक्षेषु सम्पठेत् ॥
इति मनुवचनस्य "इत ऊर्ध्वमनध्यायेष्वनान्यधीयीत" इत्यादि. स्मृत्यन्तराणां च पर्यालोचनया घेदवेदाङ्गाध्ययनसमकालता लभ्यते, तथापि ऋषिवचनत्वाविशेषाद्भाध्यकारोक्तनिवादेश्च ब्रीहियवद्धिकल्प एवेति तत्त्वम् । तदेवमनुबन्धचतुष्टयस्य सुस्थत्वात्साधुशब्दव्युत्पादनं कर्तव्यमिति स्थितम् । ___ ननु किमिदं साधुत्वम् ? साधयति बोधयतीति साधुरिति व्युत्प. त्या बोधकत्वं तदिति चेत? गाव्यादावपि तत्सत्वात् । शक्तत्वं तदिति चेत ? न, 'पचति' इत्यादौ विकरणानामसाधुतापत्तेः, तेषामनर्यक. त्वात; दुपच लट् इत्यादीनां साधुतापत्तेच, लाक्षणिकेश्वव्याप्तेश्च तेषा. मपि लक्ष्येऽर्थे ऽशक्तः । कचिच्छक्ततायास्तु अश्वास्वादिष्वतिप्रसक्तः । वृत्तिमत्त्वं तदिति चेत् ? न, द्योतकेषु निपातेग्वव्याप्तेः । औपसंदानिकी शक्तिरेव द्योतनेति चेत् ? न, प्रोत्तरजित्वघोत्तरटत्वयोरविशेषेण विनि. गमनाविरहाच्छकतापत्ती व्यासज्यवृत्तिशक्तौ विश्रान्तेः । ततश्च अद द्विवचनाद्यव्यवस्थापत्तिः । न च जातिविशेषे . एव साधुतेति वाच्यं,