________________
२०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाहिके
कत्वादिना सङ्करापत्तेरिति । अत्राहुःअनपभ्रष्टताऽनादिर्यद्वाऽभ्युदययोग्यता। व्याक्रिया व्यञ्जनाया वा जातिः काऽपीह साधुता ॥ इति ॥ अस्यार्थ:-शक्तिवैकल्यादिप्रयुक्तमन्यथोचारणमपभ्रष्टता, तद्विरहो. नपभ्रष्टता, सैव साधुता। सा चार्थविशेषान्तर्भावेणैव । तथाहि, य. मर्थ शकथा लक्षणया वा बोधयितुं द्योतयितुं वा यादृक्शब्दोऽनादिः प्रयुक्तस्तस्मिन्नर्थे दोषादन्यथात्वं प्राप्तः सोऽसाधुः, अन्यथा तु साधु. रिति । येऽपि गाव्यादिष्वेव प्रथमं व्युत्पन्नाः सन्तस्तान्प्रयुअते तेषाम. प्यन्यथेच्चारणमस्त्येव । तत्र च दोषप्रयोज्यतास्त्येव, मूलप्रयोक्तुभ्र माधन्यतमत्वात् । ___ यद्वा, अनादिता साधुता । अनादरिति तु श्लोके भावप्रधानो नि. हेशः । आदेरभावोऽनादिरिति वा । असन्देह इतिवत्तत्पुरुषः ।
अभ्युदययोग्यता वाऽस्तु साधुता। रत्नतत्त्ववच्छास्त्रपरिशीलनशालिभिगम्यो जातिविशेषो घेति । य: तु जातिसङ्कर इत्युक्तम् । तन्न; गुणगतजातो तस्यादोषत्वात् । तथाहि, यस्य देवदत्तादेरनोष्ठया वणों एव पूर्व भुतास्तस्य कुड्यादिव्यवहितस्य ओष्ठयवर्णेषु श्रुतेषु यदनुमानं जायते तदोष्ठयानोष्ठयसाधारणतदनुमा. पकजात्यङ्गीकारे सत्येव घटते न तु तत्तद्व्याप्यनानाजातिस्वीकारे, ओ. ष्ठयवर्णवृत्त्यसाधारणजातेः प्रागगृहीतत्वेनानुमितिसामग्रीवैकल्यात् । व. स्तुतस्तु उपाधिसङ्करवदेव जातिसरोऽपि सर्वत्रास्तु, दूषकताबीजा निरुक्त, विनिगमकाभावेन भूतत्वमूर्त्तत्वयोरिव शरीरत्वपृथिवीत्वयो
योरपि जातित्वभङ्गापत्तेश्च । तस्माच्चतुर्विधमपि साधुत्वं निर्दोष व्याकरणैकगम्यं च।
एवमसाधुत्वमपि चतुर्दा-अपभ्रष्टता, सादिता, प्रत्यवाययोग्यता, तदवच्छेदकजातिविशेषो वेति । टिघुभादिसंज्ञासु यद्यपि पुण्यपापज. नकतारूपे साधुत्वासाधुत्वे नस्तस्तथापि अनपभ्रष्टत्वरूपं साधुत्वमस्त्ये. व । तदेवानुशासनप्रवृत्तावुपयोगि, "भय" इत्यादिसौत्रनिर्देशात् "कुत्वं कस्मान्न भवति" इत्यादिभाष्याचेत्याहुः। एवं चानादित्वमभ्युदययो. ग्यत्वं वा अनपभ्रष्टतामात्रेण न सिध्यति, किन्तु पौरुषेयसङ्केतविरह. विशिष्टेनेत्यवधेयम् । तदेतदुक्तम्
यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते टिघुभादयः। कथं नु तासां साधुत्वं नैव ताः साधवो प्रताः॥