________________
साधुत्वनिरूपणम् । अनपभ्रंशरूपत्वान्नाप्यासामपशब्दता।
हस्तचेष्टा यथा लोक तथा सङ्केतिता इमाः॥ ततश्च
नासां प्रयोगेऽभ्युदयः प्रत्यवायोऽपि वा भवेत् ।
लाघवेनार्थबोधार्थ प्रयुज्यन्ते तु केवलम् ॥ इति । दयं निर्गलितोऽर्थः
यास्त्वेताः स्वेच्छया संशाः क्रियन्त इति पक्षे. अनिदंप्रथमाः शब्दाः साधवः परिकीर्तिताः । त एव शक्तिवैकल्यप्रमादालसतादिभिः ।
अन्यथोच्चारिताः पुम्भिरपशब्दा इतीरिताः॥ इति च साध्वसाधुलक्षणे आश्रीयमाणे. टिघुभादीनां साध्वसाधुव. हिर्भावः स्पष्ट एव । तेषामप्यनादितेति पक्षे तु चतुर्विधाऽपि प्रागुळा साधुताऽस्त्येव । उक्तश्च
व्यवहाराय नियमः संज्ञायाः संशिनि कचित् । नित्य एव तु सम्बन्धी डित्थादिषु गवादिवत् ॥ वृद्धादीनां च शास्त्रेऽस्मिञ्छक्त्यवच्छेदलक्षणः ।
अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत् ॥ .. पक्षद्वयेऽप्यनुशासनविषयता निर्विवादेति । नामकरणे त्वयं विशेषः कृतं कुर्यान्न तद्धितमित्यादिगृह्यसूत्राविरोधिनामेव साधुता । तदि. रोधिनां तु. देशभाषानुसारेण क्रियमाणानां कूचीमञ्चीत्यादिनामधे. यानामसाधुतैव । तदेतद् ऋलसूत्रे वार्तिकव्याख्यावसरे स्फुटीकरिष्यते ॥
इति साधुत्वनिर्वचनम् ।। व्युत्पादनं च प्रकृतिप्रत्ययादिकल्पनया उत्सर्गापवादरूपलक्षणैरेव, न तु साध्वसाध्वोर्वा अन्यतरस्य वा प्रतिपदपाठेन, शब्दानामानन्त्येन तदसम्भवादित्युक्तम् । स्यादेतत, लक्षणप्रणयनमपि किं जातिपक्षमा. श्रित्य उत व्यक्तिपक्षम् ? आधे सकृद्तौ यद्वाधितं तद्वाधितमेवेति न सिद्ध्येत् । तथाहि, जातौ पदार्थ द्वयोर्विध्योः परस्परपरिहारेण तस. जात्याकान्तव्यक्तिविशेषे चरितार्थयोंः कचिदेकर प्रसने परस्परप्रति. बन्धादप्रतिपत्तिरेव स्यात् सत्प्रतिपक्षवत् । तथा च वक्ष्यति-"अप्रति. पत्तिाभयोस्तुल्यबलत्वात्" इति । तत्र च विप्रतिषेधसूत्रं विध्यर्थ-परं तावद्भवतीति । तस्मिश्च कृते यदि पूर्वस्य निमित्तमस्ति तर्हि भवत्येव व्रत । यथा 'भिन्धकि' इत्यत्र मिनद् हि इति स्थिते परत्वाद्विभावे छते