________________
शब्द कौस्तुभ प्रथमाध्याय प्रथमपादप्रथमाह्निके
पुनःप्रसङ्गविज्ञानाद कज्भवति । तदेवं जातिपक्षे पुनः प्रसङ्गविज्ञानं यथ पि सिद्ध्यति तथापि सकृद्गताविति न सिध्यति । तथा च 'जुहुतात् त्वम्' इत्यत्र जुहु हि इति स्थिते धिभावं बाधित्वा परत्वात्तातङि कृते स्थानिवद्भावेन स्यादेव धिः । व्यक्तिपक्षे तु सकलव्यक्त्युद्देश्यकस्य शास्त्रस्य व्यक्त्यन्तरे चरितार्थत्वासम्भवाद्विकल्पप्रसङ्गे नियमार्थे सूत्रं • परमेव भवति न तु पूर्वमिति । तथा चैतत्सूत्रबलेन तत्र पूर्वलक्षणस्य व्यक्त्यन्तरमात्रविषयकत्वं कल्प्यत इति एतद्वयक्तिविषयकलक्षणाभाव एव पर्यवस्यति । तथा च जुहुतास्वमित्यादेः सिद्धावपि भिन्धकीत्यादि व्यक्तिपक्षे न सिध्यति । तस्मादशक्यमन्यतरपक्षाश्रयणेन लक्षणप्रणयनमिति चेत् ? सत्यम्, अत एव लक्ष्यानुरोधात्पक्षद्वयमप्याश्रीयते । क्क चित्कश्चित्पदार्थ इति । तत्र जातिवादिनामयं भावः - लाघवाज्जातिर्वा • च्या व्यक्तीनामानन्त्येन तासां वाच्यत्वे गौरवम् । वाहदोहाद्यन्वयस्तु लक्षितायां व्यक्ताविति ।
२२
1
व्यक्तिवादिनस्त्वाहुः- अनुपपतिं विनापि व्यक्तिप्रतीतेरनुभवसिद्ध. तया व्यक्तिरेव वाच्या । त्वप्रत्ययादिकं विना जातेः प्राधान्येनाप्रती• तेश्च । वाहाद्यन्वयो ऽप्येवं समञ्जसः । यत्तूकं व्यक्तीनामानन्त्यमिति, नैतद्वाधकं, शक्यतावच्छेदिकाया जातेरेकयात् । नन्वेवं जातेरपि वाच्य- त्वमायातमिति चेत् ? न, अकार्यत्वेऽपि कार्यतावच्छेदकत्ववदशक्य·श्वेऽपि शक्यतावच्छेदकत्वसम्भवात् । अत एव लक्ष्यतावच्छेदके ल. · क्षणा नेति नैयायिकाभ्युपगमः । तस्माज्जातिरुपलक्षणं व्यतिमात्रं तु वाच्यमिति ।
यत सरूपसुत्रे माध्ये वक्ष्यते - "नह्याकृतिपदार्थकस्य द्रव्यं न पदा. र्थः” इत्यादि, तत्तु जातिव्यक्त्योरन्यतरेण विशिष्टस्यापरस्य वाच्यतेस्येवं रूपं मतान्तरम् । तथा चानुत्यधिकरणे मट्टैरुक्तम्
नियोगेन विकल्पेन द्वे वा सह समुचिते ।
सम्बन्धः समुदायो वा विशिष्टा वैकयेतरा ॥ इति ।
तत्र जातिरेव व्यक्तिरेव वा वाच्येति इहत्यं मतद्वयं नियोगेनेत्यनेमोपनिबद्धम् । चतुर्थचरणेन तु सरूपसूत्रोकं मतद्वयमुपनिबद्धमिति विवेकः । यद्यपि जातिव्यक्ति पक्षयोरन्यतरस्य न्यायेन बाघ आवश्यकस्तथापीह शास्त्रे संज्ञा परिभाषादिवल्लक्ष्यसिद्ध्युपायतया उमयाश्रयणे किमपि बाधकं नास्तीत्यवधेयम् । वस्तुतस्तु भट्टोकाष्ठपक्षीमध्ये विकल्पेनेति तृतीयः पक्षोऽत्र प्रक्रियादशायां स्थितः । विकल्पञ्च ल. स्यानुरोधाद्वपवस्थितो न त्वैच्छिक इत्यन्यदेतत् । समुचयपक्षं चतुर्थ