________________
जातिव्यक्योर्वाच्यत्वनिरूपणम् ।
२३ माश्रित्यापि क्वचित्कस्य चिद्विवक्षा अपरस्य त्वविवक्षेति गृहीत्वा प्रक्रि. यानिर्वाहः सुकर इति दिक् । यदि हि व्यक्तिरेवेत्येतत्सार्वत्रिकमाभिमतं स्यात्तर्हि "जात्याख्यायाम्" इति सूत्रं नारभेत । यदि च जातिरेवेति, तर्हि सरूपसूत्रं नारभतेति भाष्यम् ।
ननु यस्मिन्वने एक पवाम्रवृक्षस्तत्रापि लक्षणयाँ जातिपरत्वे इह आम्राः सन्तीति प्रयोगं साधयितुं "जात्याख्यायाम्" इति सूत्रमस्तु । तथा जातिपक्षेऽपि नानार्थानुरोधात्सरूपसूत्रमस्तु । वक्ष्यति हि. वार्ति. ककृत्-व्यर्थेषु च मुक्तसंशयमिति । सत्यम्, लक्ष्यानुरोध एव पक्षद्वयाश्रये शरणम् । अत एवोदाहृतसूत्रयोर्भाग्यकृता प्रत्यारव्यास्यमान. त्वेप्यदोषः।
इदानी वार्तिककार: शास्त्रस्य नियमविधिरूपतया सार्थक्यमाहसिद्ध शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्त शब्दप्रयोगे शास्त्रेण धर्मनि. धमो यथा लौकिकवैदिकेषु । लोकादेव हि प्रथमव्युत्पत्तिः अव्युत्पर्य प्रति व्याकरणादीनामप्रवृत्तेः । “अर्थवदधातुः" इत्यादि हिव्याकरणं शक्तिमहोपजीवकम् । तथा च समर्थसूत्रेऽपि धार्तिकम्-"अर्थानादेश नात्" इति । "अनेकमन्यपदार्थ" इत्यादिकं हि लोकसिखमर्थमनूप साधुत्वान्वाख्यानपरम । ततश्च लोकादेष शब्दे अर्थे तयोः सम्बन्ध सिद्ध अर्थबोधनाय शब्दप्रयोगेऽपि प्रसके गवादय एव प्रयोक्तव्यानतु गाव्यादय इति नियमार्थ शास्त्रम् । नियमफलं तु धर्मः । तत्र स्मार्ग दृष्टान्त:-"प्राङ्मुखोऽन्नानि भुञ्जीत" इत्यादिलौकिकशब्देनोक्तः। "नी. हीनवहन्ति" इत्यादिश्च वैदिकशब्देनोक्तः । धर्मनियम इति च षष्ठीतत्पु. षोऽश्वघासादिवत्, न तु चतुर्थीतत्पुरुषः प्रकृतिविकृतिभावविरहा. त् । ननु यदि प्रयुक्तानामिदमन्वाख्यानं तर्हि किमर्थमप्रयुका मपि ऊष तेर चक्र पेचेत्यादयो व्युत्पाद्यन्ते इति चेत् ? न, आर्षशानं विना अप्रयुक्तताया दुरवधारणत्वात् । महान्हि प्रयोगविषयः । तथा च मा. ज्यम्-"सप्तद्वीपा वसुमती, त्रयो लोकाश्चत्वारो वेदाः साझाः सरहस्या बहुधा भिन्ना एकशतमध्वर्युशाखाः सहस्रवमा सामवेद एकविंशतिधा बाच्यं नवधायर्षणो वेदः पाकोवाक्यमितिहासा पुराणं वैद्यकमि त्येतावान् प्रयोगस्य विषयः" इति । बचानामाम्नायो बाहुव्यम् । "छन्दोगौक्थिकयाक्षिकबहुचनटायः" इति ध्यप्रत्ययः । “धरणार मानाययोः" इत्युक्तवादाम्नाये । अथर्वणा प्रोक्तो घेदो अथर्वा । उपचारात्प्रयोग इत्येके । बसन्तादिषु अथर्वन् माथर्वण इत्युमयोः पाठसाफ ात्प्रोकप्रत्ययस्य वैकल्पिको लुगिति तु तत्त्वम् । अत एव माये.