________________
२४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाहिकेक्यते-तेन प्रोक्तमिति प्रकृत्य ऋषिभ्यो लुग्वक्तव्यः । वसिष्ठोऽनुवाकः । ततो षकव्यमथर्वणो वेति । तमधीते आथर्वणिकः वसन्तादित्वाठक् । पाण्डिनायनादिसूत्रे निपातनाटिलोपाभावः। आथर्वणिकस्याम्नाय आ-, थर्वणः "आर्वणिकस्येकलोपश्च" इति आथर्वणिकादण तत्सन्नियोगे. नेकलोपश्च ।
प्रकृतमनुसरामः । एतावन्तं प्रयोगविषयं पर्यालोचयितुमशक्कैर. प्यस्मदादिभिर्लक्षणानुगतानां प्रयोगोस्तीत्यनुमेयम् । अस्ति च त्वयो. दाहतानामपि वेदे प्रयोगः-सप्तास्ये रेवती रेव दूष । यन्मे नरः श्रुत्यं ब्रह्म चक्र । यत्रानश्चक्राजरसं तनूनामिति । ननु यदि लक्षणेनानादितासिद्धि स्तर्हि वचन्त्यादीनामपि स्यादिति चेत् ? न, “नहि वचिरन्तिपरः प्रयुज्य ते" इत्यभियुक्तानामविगीतव्यवहारेण सामान्यशास्त्रस्यं सङ्कोचात् । अ. भ्युपगतोविशेषविषयिण्या पतितस्य कर्मानधिकारस्मृत्या अग्निहोत्रादिश्रुतीनां सङ्कोचः, विशेषविषयेण शिष्टाचारेण सामान्यस्मृतेः सङ्कोचश्व । तदुक्तम्-आनर्थक्यप्रतिहतानां विपरीतं बलाबलमिति । यत्र तु अप्र. योगः सन्दिग्धः शास्त्रानुगमश्च तत्र निष्प्रत्यूहमनुमानम् । तदुक्तम्“यथालक्षणमप्रयुक्त" इति । अप्रयुक्त अनिश्चितप्रयोगे इत्यर्थः । नि. श्चिताप्रयोगे तु लक्षणं न प्रवर्तते एवेति निष्कर्षः । न चैवं 'ब्राह्मणो ब्रवणाद् इति कल्पसूत्रप्रयोगरूपेणापि विशेषविषयकाचारेण "ब्रुवोवचिः" इत्यादीनां सङ्कोचापत्तिः । त्रिशङ्काद्ययाज्ययाजनेनापि स्मृतिसङ्कोचा. पत्तेस्तुल्यत्वात् । तत्र धर्मबुद्ध्यानुष्ठानं नास्तीति चेत् ? इहापि साधु. त्वबुद्धा प्रयोगो नास्तीति तुल्यम् । यर्वाणस्तर्वाण इतिवदभियुक्तानामपि असाधुप्रयोगस्य क्रतोबहिरुपपत्तेश्च । अत एवेतिहासपुराणादिष्वपशब्दा अपि सन्तीति हरदत्तः । नदीसंज्ञासूत्रे भाग्येऽपि स्पष्टमेतत् । केचित्त आर्षग्रन्थेष्वपि छन्दसि विहितस्य व्यत्ययस्य प्रवृत्त्या साधुतां समर्थयन्ति । न च गौणमुख्यन्यायेन मुख्ये छन्दस्येव तत्प्रवृत्तिः, स्व. रितत्वप्रतिक्षया तद्वाधात् । वक्ष्यति हि "स्वरितेनाधिकारः" इति सूत्रेऽविशेषायाधिकं कार्यमिति । गौणमुख्यन्यायो हि स्वरितत्वप्रति. शास्थले न प्रवर्तते इत्यर्थः । उपपादयिष्यते चेदम् । अत एवार्षत्वा. साधुतेति तत्र तत्रोद्घोषः सङ्गच्छते इति दिक् ।
यद्यपि अप्राप्तांशपूरणफलको नियमविधिः, इतरव्यावृत्तिफलकस्तु नित्यप्राप्तिविषयकः परिसंख्याविधिरिति पूर्वोत्तरमीमांसयोर्व्यवहारस्तथापीह शास्त्रे परिसंख्याऽपि नियमशब्देन व्यवहियत । तेन "पश्च पञ्चनखा भक्ष्याः" इत्यस्य नियमोदाहरणतया उपन्यासो न विरुद्धः ।