________________
नियमपदस्य अत्र शास्त्रे परिसंख्याबोधकत्वनिरूपणम् । २५
न चासौ मीमांसकरीत्याऽपि नियमो भवत्विति वाच्यं पञ्चातिरि. कभक्षणे प्रायश्चित्तविधेरसङ्गतत्वापत्तेः, पञ्चानामभक्षणे प्रायश्चित्तपित्तौ गृहेऽपि निवसन् विप्रो मुनिर्मासविवर्जनात् ।
इत्यादिस्मृतिव्या कोपाच्च अत एव त्रिदोषाऽपि परिसंख्यैव तत्राश्रितेति दिक् ।
अत्रेदमवधेयम्, नियमातिक्रमे कृते अपूर्व परं न भवति, दृष्टस्त्वर्थावबोधो भवत्येव अवहननातिक्रमे कृतेऽपि वैतुष्यवत् दिगन्तराभिमुखभोजने तृप्तिवच्च । न चापभ्रंशानामवाचकतया कथमर्थावबोध इति वाच्यं, शक्तिभ्रमवतां बाधकाभावात् । विशेषदर्शिनस्तु द्विवि धाः—तत्तद्वाचकसंस्कृत विशेषज्ञानवन्तस्तद्विकलाश्च । तत्र आद्यानां साधुस्मरणद्वारा अर्थबोधः, द्वितीयानां बोध्यार्थ संबद्धार्थान्तरवाचकस्य स्मृतौ सत्यां ततो लक्षणया बोधः, सर्वनामस्मृनेर्वा, तदर्थज्ञापकत्वेन रूपेण साधुस्मृतेर्वा, अर्थाध्याहारपक्षाश्रयणाद्वेति यथायथं बोध्यम् ।
अपरे त्वाहुः - अपभ्रंशा अपि वाचका एव । तथाहि, अस्मात्पददियमर्थो बोद्धव्य इतीश्वरेच्छा शक्तिरिति मते भगवदिच्छायाः स. न्मात्रविषयकत्वादपभ्रंशैस्तु बोधजननस्य शक्तिभ्रंमदशायां तेनाप्यभ्युपगमाद् दुर्वारा शक्तिः । पदार्थान्तरं तदिति मतेऽपि कल्पकं साध्यसाध्वोस्तुल्यमेव । असाधुंस्मरणद्वारा साधुर्बोधक इति वैपरीत्यस्यापत्तेश्च । स्वीकृतं हि परेण तिवादिस्मारितानां लादीनामसाधूनामपि बोधकत्वम् । ननु स!धूनामल्पत्वात्तत्रैव लाघवाच्छक्तिः कल्प्यते इति चेत् ? न वयमपूर्व किञ्चित्कल्पयामः, किन्तु यथा घटजननसामर्थ्यमेव दण्डा• देः शक्तिः, तथा घटबोधजननसामर्थ्यमेव घटादिपदानां शक्तिः । सा च कारणत्वापरपर्याया शक्तिभ्रमाद् बोधं वदता त्वयाऽप्यभ्युपेतैव । श क्तिग्रहस्य भ्रमत्वं परं त्यज्यतां विषयाबाधादिति ब्रूमः । नन्वेवं गौणमुख्यविभागोच्छेदः "सर्वे सर्वस्य वाचकाः" इति पर्यवसानादिति चेत् ? स्वत्वक्षेऽपीश्वरेच्छाया गौणादावतिप्रसङ्गस्य तुल्यत्वात् । सुहृद्भावेन पृच्छामीति चेत् ? प्रचुरतरप्रयोगतद्विरहाभ्यां गौणमुख्यविभाग इति गृहाणं । ननु जनकत्वेना गृहीतादपि तर्हि कारणात्कार्योदयः स्थादेवेति चेत ? पदार्थस्मृतिरापाद्यते वाक्यार्थबोधो वा ? नाद्यः, सम्बन्धग्रहं विना तदयोगात् । नान्त्यः, द्वाराभावात् । पदार्थस्मरणं हि द्वारम् । एवञ्च महदेव लाघवम् । साधुस्मारणकल्पना क्लेशश्च न भवतीति । सा· त्वं तु जातिविशेषात्मकमित्युक्तमेव । समानायामर्थावगती शब्दैश्वा पशब्दैश्चेति भाध्यमप्येतत्पक्षपातीति दिक् ॥
इति - अपशब्दानां वाचकत्वावाचकत्वविचारः ।