________________
२६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमालिके
प्रयोगशब्दमुपाददानो वार्तिककारः प्रयोगाद्धर्मो न तु ज्ञानमात्रादिति सूचयति । युक्तं चैतत्, एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्त इत्यत्र ज्ञानप्रयोगयोरुपादानस्याविशेषेऽपि प्रतिपदाधिकरणन्यायेन यदैकस्मा. दपूर्व तदेतरत्तदर्थमिति प्रयोगात्फलं, ज्ञानं तु तदङ्गमित्यभ्युपगमात् प्रयोगस्य फलम्प्रति सन्निहितत्वाच । ज्ञानस्य तु व्यवहितत्वात् शा. मस्य प्रयोगाङ्गतायां दृष्टार्थतालाभाच्च । उक्तं च भट्टैः
सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते । परानं चात्मविज्ञानादन्यत्रत्यवधार्यताम् ॥ इति । अत एव "तरति ब्रह्माहत्यां योऽश्वमेधेन यजते यउ चैनमेवं वेद" इत्यादिष्वपि ज्ञानपूर्वकानुष्ठानात्फलमित्येव सिद्धान्तः । तदुक्तं वार्तिक छता-"तनुल्यं वेदशब्देन" इति। वेदः शब्दो विधायको यस्यार्थस्य अश्व. मेधादेस्तेनेदं तुल्यमित्यर्थः । तेन वैदिकशब्दानामपि पक्षकोटिप्रविष्टतया दृष्टान्तासतिरिति नाशङ्कनीयम् । "तेऽसुराः" इति पूर्वोदाहत. श्रुतिरपि अपशब्दप्रयोगात्मत्यवायं बोधयन्ती साधुप्रयोगाद्धर्म गमय. ति । वाजसनेयिनां ब्राह्मणे-"तस्मादेषा व्याकृता वागुद्यते" इति श्रु. तिरप्येवम् । भाष्ये तु अभ्युपेत्यवादेन साधुज्ञानात्फलमित्ययमपि प. क्षा समर्थितः । न चैषमपशब्दमानावधर्मोऽपि स्यादिति वाच्यं, 'या. घद्वचनं वाचनिकम्' इत्यभ्युपगमात् "न म्लेच्छितवै" इत्यादिना अ. साधुप्रयोगस्यैव निषेधाच्च । न च व्याकरणाध्ययन प्रवृत्तस्य परिनि. ष्ठितपचत्यादिबोधार्थ हुपचप्रभृतीनां प्रयोगोऽप्यावश्यक एवेति वा. व्यं, तदीयशानमात्रेण निर्वाहात् । अत एवालीकिकम्प्रक्रियावाक्यमूहमात्रस्य गोचर इति नित्यसमासे प्वस्वपदविग्रहाभ्युपगमः । अथ व्यु: त्पादनार्थ तत्प्रयोग आवश्यक इत्याग्रहस्तथापि न क्षतिः, अनपभ्रष्ट. स्वेन तेषां प्रत्यवायाजनकत्वात् । नाते शक्तिवैकल्यादिप्रयुकाः, येन गाव्यादिसाम्यं भजेरन् । अथ सावित्वादसाधुतेत्याग्रहस्तथापि न क्षतिः शब्दस्वरूपपरत्वात् । अनुकरणानां सर्वत्र साधुताभ्युपगमात् । नहि "हेलयो हेलयः" इति श्रुतिपाठोऽपि प्रत्यवायजनकः । शमस्व. रूपमात्रपरा एते भित्रा एवं सावधति तु तुल्यम् । अत एव "स्वा. हेन्द्रशत्रुर्वर्द्धस्व" इतिश्रुतावाद्युदात्तस्य पाठेऽपि तत्प्रत्याय्यस्यार्थपर. स्य ऊहितस्यानाम्नानादमन्त्रतया जपादिपर्युदासेन मन्त्रे विधीयमाना एकश्रुतिर्न प्रसक्तति प्रागुकम् । अत एव साधुत्वासाधुत्वयोरेकस्मिन् सद्भावो अभावश्चेति विरुद्धस्य दुरुपपादतया अर्थभेदाच्छब्दभेद इति दर्शन प्रवृतम् । न च "प्रकृतिषदनुकरणम्" इत्यतिदेशेन अपशब्दा.