________________
साधुशब्दप्रयोगाद्धर्मोत्पत्तिनिरूपणम् ।
२७
नुकरणस्य असाधुता शक्या असाधूनां शास्त्रीयप्रकृतित्वाभावात् अ. सांधुत्वस्य शास्त्रीय कार्यत्वाभावाच्च । नह्यशास्त्रीयमप्यनिदिश्यते - ति । ऋलसुत्रे भाष्ये स्फुटमेतत् । हुपचष्प्रभृतिप्रयोगादपशब्दशामाद्वा प्रत्यवायो नास्तीति प्रागुक्तरीत्या स्थितेऽपि अभ्युपेत्यापि प्रत्यवायं भाष्ये कूपखानकन्याय उदाहृतः । तथाहि, कूपं खनन् यद्यपि कईमेन लिप्यत एव तथापि ततो लब्धेन जलेन तं मलं दूरीकरोति फलान्तरं च लभते तथेहापि परिनिष्ठित रूपज्ञानात्पूर्वोत्पक्षप्रत्यवायनिरास फलान्तरं च लभते इति । सोऽयं कूपखानकन्यायः । कूपं खनतीति विग्रहे कर्मण्यणि प्राप्ते वासरूपन्यायेन ण्वुल् । नित्यसमासत्वाभावात्कूपस्य खानक इति स्वपदविग्रहः । न च शिल्पिनिष्णुना स रूपेण ण्वुलो बाधः स्यादिति वाच्यम्, इह खननकर्त्तृत्वमात्रस्य वि. वक्षया शिल्पित्वस्याविवक्षितत्वात् । तस्मात्सर्वथापि गाव्यादिप्रयोगे प्रत्यवाय इति स्थितम् । तत्रैव भाष्ये सिद्धान्तितम् याज्ञे कर्मण्येवायं, "न म्लेच्छ्रितवै” इत्यस्य ऋतुप्रकरणे पाठात् । क्रतुप्रयोगाद्वहिस्तु अ. पशब्द प्रयुञ्जानो न दुष्यति । एवं हि श्रूयते - " यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः प्रत्यक्षधर्माणः परावरशाः” इति । प्रत्यक्षधर्माणो योगजधर्मबलेन साक्षात्कृतधर्माः । अत्रायं श्रुतेराशयः - योगिन एते विरकघतिशयाल्लौकिकेष्वर्थेष्वाग्रहविरहेण यथा तथास्माकं भवत्वितिविवक्षवो यद्वानस्तद्वान इति वक्तव्ये यर्वाणस्तर्वाण इत्यूचुः । याशे कर्मणि पुनः साधूनेव प्रयुक्तवन्तस्तेन यर्षाणस्तर्वाण इत्येवंरूपामेव संतां मुनयो लेभिर इति । भट्टाश्चाद्दुः
-EX
स्sयुपाय मांसभक्षादिपुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ॥ इति ।
·
अपरे त्वाद्दुः । क्रतोर्बहिः प्रयोगेऽपि पुरुषः प्रत्यवैतीति । तेषामयमाशय:- "नानृतं वदेत्" इत्यनारभ्याधीतः पुरुषार्थोऽपि निषेधस्तावदस्तीति निर्विवादम् । तत्र निषेध्यमनृतं द्विधा - शब्दानृतमर्थानृतं चेति । शब्दस्यार्थस्य वा विपरीत प्रतिपत्तिहेतुभूतमुच्चारणमनृतवदनम् । एवञ्च यथार्थानृतं वदतः प्रत्यवायस्तथा शाब्दान्र्तमपीति तुल्यम् । क्रतुमध्ये पुनरपभाषणे पुरुषोऽपि प्रत्यवैति क्रतुरपि विगुण इति वचनद्वयबलात्सिध्यतीति दिक् ।
यथा च प्रयोगे साधूनां नियमस्तथा साधुत्वज्ञानेऽपि व्याकरणस्य नियम एवेत्यवधेयं; “व्याकृता वागुद्यते" इतिप्रागुक्तश्रुतेः । व्याकृता व्याकरणसंस्कृतेति हि तदर्थः ।