________________
२८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमालिके
व्याकरणशब्दश्च योगरूव्या लक्ष्यलक्षणसमुदायपरः, सुत्रमात्रपरो वेति पक्षद्वयमपि भाष्ये स्थितम् । तत्राधे पक्षे सूत्रमात्रमधीयाने वैया. करणशब्दप्रणेगो भाक्तः । समुदायवाचका हि शब्दाः कचिदवयवेपि प्रयुज्यन्ते । यथा पूर्व पञ्चालाः, उत्तरे पञ्चालाः, इति । द्वितीयपक्षे तु व्याकरणस्य सूत्रमिति प्रयोगो 'राहोः शिरः' इतिवन्नेयः । अष्टाध्याय्या एकदेशः सूत्रमित्यवयवावयविभावे षष्ठीति पाऽस्तु । अस्य वनस्यायं वृक्ष इत्यादिवत् । न चैवमपि सूत्रमात्राच्छब्दाप्रतिपत्तेनियमानुपपत्तिः, पदच्छेदविग्रहयोजनादिभिः सूत्रार्थस्यैवाभिव्यञ्जनात् । अत एष हुत्सू. त्रमुच्यमानमप्युपेक्ष्यते । यत्रैव तु सूत्रस्य तात्पर्यलेशोऽप्यस्ति तदेव तु गृह्यते । तदुक्तम्
सूत्रेष्वेव हि तत्सर्वं यद् वृत्ती यच्च वात्तिके । इति ।
अत एव बहुलग्रहणादिकं सार्थकमिति दिक् ॥ नन्वेवं किं वर्णोपदेशेन ? न हि तद्वलेन कस्यचिच्छन्दस्य साधुः स्वमवगम्यते। न च कलमातादिदोषरहितवर्णस्वरूपप्रतिपत्तिरेव त. हफलमिति वाच्यं, लोकत एवाविप्लुतवर्णप्रतीतरवश्यं वाच्यत्वात। अन्यथा प्लुनादिपाठस्यापीह कर्त्तव्यतापत्तेः । तदुक्तम्-"इष्टबुद्धयः र्थश्चेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेशः" इति । एकश्रुत्या सूत्रपाठादुदात्तादिस्वरत्रयस्यापि कर्तव्यः पाठ इत्युक्तम् । त्रैस्वर्येण पाठे हि अन्यतमस्य उच्चारणादेव सिद्धौ द्वयोरेव कर्तव्यता ब्रूयात् । अत एव च लोके त्रैस्वयमेकश्रुत्या सह विकल्प्यत इति ज्ञा. प्यते । एतच्च "विभाषा छन्दसि" इत्यत्र स्फुटीकरिष्यामः । ननु नि. ईशस्य जातिपरत्वात्प्लुतादिसंग्रहः सेत्स्यतीतिचेत् ? न, संवृतक. लप्रभृतीनामपि संग्रहापत्तेः । तदुक्तम्"-आकृत्युपदेशात् सिद्धमितिचे. संवृतादीनां प्रतिषेधः" इति । तत्र -हस्वस्य अवर्णस्य संवृतगुणकत्वेऽपि तदितरेषामचा संवृतत्वं दोषः । आदिशब्दात्कलः । स च स्वो. चितस्थानभ्रष्टः । तथा श्वासभूयिष्ठतया -हस्वोऽपि दीर्घवल्लक्ष्यमा. णो ध्मातः । एवं दीर्धेऽपि -हस्ववत्कालसंकोचनोच्यमानोऽर्धकः । एवं करणादिभ्रंशादपि बहवो दोषाः शिक्षाप्रातिशाख्यादिषु प्रसिद्धाः । तत्तदोषविशिष्टानामपि अत्वादिजात्याकान्तत्वाजातिपरनिर्देशपक्षे ते. ध्वतिव्याप्तिरितिस्थितम् । न च गर्गादिविदादिपाठस्य तन्त्रेणोभयार्थतया वर्णशुद्धिलाभः, अपठितेषु प्रातिपदिकंषु तधाप्यगतेः।।
स्यादतत् , सर्वा अज्व्यक्तयो हळ्यक्तयश्च शास्त्रान्ते शुद्धाः पठिज्यन्ते "अ अ" इतिवत् । नचैवं गौरवं, तबलेन सर्वेषामनुषन्धनां