________________
वर्णसमाम्नाय प्रयोजननिरूपणम् ।
प्रत्याख्यानात् । इत्संज्ञालोपयोरपि त्यागात् । तथाहि, शीङ् धातो. कारं परित्यक्ष्यामः । ईकारं च कलं पठिष्यामः । ङिन आत्मनेपदमित्यस्य स्थाने कलादात्मनेपदमिति पठिष्यामः । कलश्च प्रक्रियादशाया. मेव यथा ङकारः । प्रयोगे तु शुद्ध एव । प्रत्यापत्तेः शास्त्रान्ते करण मपि शास्त्रीय सकलकार्य प्रत्यसिद्धतालाभाय । एवञ्च प्रक्रियायां दोषस्य कलादेराश्रयणेऽपि परिनिष्ठितरूपे न कश्चिद्दोषः । यथा यथान्यासपक्षेऽपि अकारस्य विवृतता प्रक्रियामात्रविषया न तु प्रयोगसमवायिनी तद्वदिह पक्षे कलादयोपीति न कश्विद्विशेषः । धर्मिकल्पनात इति न्यायश्वेह बोध्यः । ङकारादयो हि धर्मिण एव त्वया पाठ्याः । मया तु उभयपठनीयस्य ईकारस्य कलत्वमात्रं कल्व्यमिति । नन्वस्मिन्पक्षे "स्वरितत्रितः" इत्यत्र कथं कार्यमिति चेत् ? “ध्मातात्कर्त्रभिप्राये" इति । एवम् "आद्यन्तौ टकितौ" इत्यत्र “आद्यन्तौ कलध्मातौ” इति । इडाद्यागमाश्च निरनुबन्धाः कलाः पाठ्याः, आनुगादयो ध्माताः । डुकृञित्यस्य स्थाने कृ इति द्विदोषं पाठ्यम् । "आदिरन्त्येन" इत्यत्रापि "आदिकलौ सह" इत्युक्त्वा 'अ उ' इत्यादिकाः संज्ञाः करिष्यन्ते । कलेनेति तृतीयानिर्देशे सति तु अप्राधान्यात्सिद्धान्त इव चरमवर्णस्य संज्ञा न स्यात् । “दूलोपे” इत्यादी अण इत्यपनीय अ ओरिति करिष्यते । स्वरसन्धिस्त्वसन्देहाय न करिष्यते । तस्मात्सर्वमनुबन्धकार्यादिकङ्कलादिभिरेव सिध्यतीति चेत् ? सत्यम्, सिध्यत्येवम् । अपाणिनीयं तु भवतीति चेत् ? अत्रोच्यते, इष्टसिद्ध्यर्थो वर्णोपदेशः । एवञ्चाकृत्युपदेशादेव उदात्तादिसिद्धिमङ्गीकृत्य कलादिष्वतिप्रसङ्ग इत्थं परिहार्यः ।
आगमाश्च विकाराश्च प्रत्ययाः सह धातुभिः ।
उच्चार्यन्ते ततस्तेषु नेमे प्राप्ताः कलादयः ॥ इति ।
२९
तु अग्रहणेषु प्रातिपदिकेषु प्राप्ता एवेति । तन्न, स्वयापि प्रतिपदपाठस्यावश्याश्रयणीयत्वात । अन्यथा 'शशः' इत्यत्र 'पषः' इत्यपि स्यात्; मञ्चके 'मञ्जक' इति, पलाशे 'पलाष' इति । स्थादेतत् । स्ववर्णानुपूर्वनिर्णयाय यदि प्रतिपदपाठस्तर्हि कलादिनिवृत्तिरपि तत वास्तु | उणादिसूत्रात्पृषोदरादिसूत्राद्वा साधुत्वाभ्यनुज्ञानं विशेषावधारणं तु निघण्टवादिनेति चेत् १ कलादिनिवृत्तिरपि शिक्षादिग्रन्थेनास्तु | सत्यम्, आनुषङ्गिकी कलादिनिवृत्तिः । वर्णोपदेशस्य मुख्यं फलं तु प्रत्याहारनिष्पत्तिः । प्रत्याहारशब्दस्तु अणादिसंज्ञापरः प्रत्या