________________
३० शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिकेहियन्ते वर्णा एध्विति व्युत्पत्तेः । न च ग्रहणकशास्त्रेण निष्पादितासु अकारादिसंशास्वनिप्रसक्तिः, योगरूढ्यभ्युपगमात । तस्मादादिरन्त्ये. नेत्येतत्सूत्रसिद्धाः संज्ञाः प्रत्याहारशब्दवाच्यास्तनिष्पत्तये च वर्णोपदे. श इति स्थितम् । इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमपादे
प्रथममाह्निकं समाप्तम् ॥१॥
अइउण् । संक्षासूत्रमिदम् "आदिरन्त्येन सहेता" इत्यनेन सहैकवाक्यत्वात्। अइउणित्येषामादिरकारः अन्त्येन णकारादिना सहितः सन् आघन्ता. भ्यामाक्षिप्तानां मध्यगानां स्वस्य च संक्षेति हि वाक्यार्थः । अत्र अका. रादीनां स्वरूपेण अनुकार्येण वा सतोप्यर्थवत्त्वस्याविवक्षितत्वात्प्राति. पदिकत्वं नेति 'गवित्ययमाह' इत्यादाविव विभकेरनुत्पत्तिः "सुपां सुलुग्" इति लुग्वा "छन्दोवत्सूत्राणि" इति भाग्यकारेष्ट्या छन्दोगेषु व्याकरणसूत्रेष्वपि छान्दसकार्यातिदेशात् "यूच्याख्यो" इतिसूत्रे छन्दःप्रदेशेषु गौणमुख्यन्यायो न प्रवर्तते इति वक्ष्यमाणत्वाद्वा ।
स्यादेतत्, स्वरसन्धिनेह भाव्यम् । तत्र अ इत्यत्र विभकेः रुत्व. यत्वलोपेषु"वृक्ष इह' इत्यादाविध लोपासिया सन्धिर्नेति समाधाने. ऽपि इकारस्य "इकोऽसवणे" इति ऋकारस्य "कत्यकः" इति प्रकृति. भावसम्भषेऽपि दैतोरयायौ दुर्वारी । यत्तु वर्णोपदेशकाले अजादि. संज्ञानामनिष्पादात्सन्धिर्नेति । तच्चिन्त्य, वर्णोपदेशे इत्संज्ञायामप्र. स्याहारे च निष्पन्ने प्रवर्त्तमानानां यणादीनां 'सुध्युपास्य' इत्यादी तटस्थे इव उद्देश्यतावच्छेदकरूपाक्रान्ते वर्णोपदेशादावपि प्रवृत्तेराव. श्यकत्वात् । अन्यथा तुल्यास्यप्रयत्नमित्यादौ सवर्णदी? न स्यात् । तथाऽर्थवत्सूत्रान्तर्गतानां प्रातिपदिकत्वं, "प्रत्ययः" "परश्च" इत्यादी सुप्रत्ययो, "याप्रातिपदिकात" "धेकयोर्विवचनैकवचमे" "बहुषु बहुवचनम्" इत्यादौ तत्तंद्विभक्तिः , "ससजुषो" इत्यत्र रुः, "खरव. सानयोः" इतिसूत्रे विसर्गश्च न स्यादिति सर्वोपप्लवः स्यात् । “स्वाध्या योऽध्येतव्यः" इत्यस्य "नेह नाना" इत्यादिश्रुतेश्च स्वस्मिन्नपि यथा प्रवृत्तिस्तथा दीर्घादीनामपीति चेत् ? तुल्यं यणादावपि । नन्धेवं ग्रहणकशास्त्रमपि "अणोप्रगृह्यस्य" इत्यादौ तटस्थे इव स्वस्मिन्नपि प्रवत, ततश्च दीर्घाणामनणत्वेन सवर्णग्राहकत्वं नास्तीति सिद्धान्तोऽपि भज्ये.