________________
अक्षरसमानायेसन्ध्यभावोपपादनम् ।
तेति चेत् ? न, वैषम्यात् । पदार्थसंसर्गो हि वाक्यार्थः । तद्वोधश्च पदार्थबोधोत्तरभावी । तथाच अणशब्देन ये उपस्थितास्तेषां सवर्णग्राहकत्वं सूत्रार्थः । अणशब्दश्च "आदिरन्त्येन" इतिसूत्रेण अक्षरस. मानायपठितेषु संङ्केतित इति तानेवानोपस्थापयति । तथाच अष्टादशा. नामपि अकास संक्षेति पर्यवसन्ने सूत्रान्तरेषु “अस्य च्वौ" इत्यादिषु अकारोऽष्टादशानामुपस्थापक इत्युचितं, न तु ग्रहणकसूत्रेपि एतद्वाक्यार्यबोधात्प्रागष्टादशस्वगृहीतशक्तिकत्वात् । नहि "सिचि वृद्धिः" इत्या. दावादैचामुपस्थापकोपि वृद्धिशब्दो "वृद्धिरादैच्" इति संज्ञासूत्रे तानुपस्थापयति । किन्तु स्वरूपमेव । संक्षासूत्रे च सामानाधिकरण्या. दादैचां वृद्धिशब्दवाच्यत्वावधारणे सूत्रान्तरेषु संशिनामुपस्थितिनि: बर्बाधेति दिक्।
तस्मादइउणित्यादौ स्वरसन्धिः प्राप्नोत्येवेति चेत् ? सत्यम्, संहिताविरहान योदयः । अनित्या हि वाक्ये संहिता । उक्तञ्च
संहितैकपदे नित्या नित्या धातूपसर्गयोः।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ इति । समासस्य पृथग्ग्रहणं गोबलीवईन्यायेन, एकपद इत्यनेनैव तत्सत. हसिद्धेः। इयं च प्राचां परिभाषा एकदेशानुमतिद्वारा संहिताधिकारैजैव ज्ञापिता । असंहितायां यणादिनिवृत्यों हि संहिताधिकारः। अत एव
हे रोहिणि त्वमसि शीलवतीषु धन्या एनं निवारय पतिं सखि दुर्विनीतम् । जालान्तरेण मम वासगृह प्रविष्टः ।
श्रोणीतटं स्पृशति किं कुलधर्म एषः । इत्यत्र धन्या एनमित्यस्य नासाधुता । अत एव आलङ्कारिकैश्च्यु. तसंस्कृतित्वापक्षेया पृथगेव विसंधितानाम दोषान्तरङ्गणितम् । तश्चैहा. स्तीत्यन्यदेतत् । नन्वेवमप्यसंहितायां कालव्यवायादेव यणादेरप्राप्ती किं संहिताधिकारेणेति चेत् ? न, संहिताधिकारबहिर्भूतानां कालव्य: पायेऽपि प्रवृत्ति झापयितुं तदारम्भात् । तेन "अनाविष्णू इत्यमा वि. ष्णू" इत्यादाववग्रहेऽप्यानडादयः, "अग्निमीळे" इत्यत्र पदविभागेऽपि निघातः, "ते नो रासन्ताम्" इत्यादौ नसादयश्च सिद्ध्वन्ति ।...
नन्वेवं पुरः हितमित्यवग्रहे हितशब्दस्य स्वरितत्वं बहुचैः पठ्य. मानमसलतं स्यात्, "तयोर्वावचि" (पा० सू० ८-२-१०८) इति संहिताधिकार आशास्त्रसमातेरिति सिद्धान्तात् , स्वरितविधेश्व