________________
३२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिकेतदन्तर्भूतत्वात् । अत एव तैत्तिरीया अवग्रहे हितशब्दमनुदात्तं पठन्ति । अत एव बहुचा अपि “अग्निमीळे" इत्यस्य पदविभागपाठे निघातमेव कुर्वन्ति न तु स्वरितमपीति चेत् ? सत्यम्, प्रातिशाख्ये विशेषविधा. नात्स्वरितसिद्धिः । उक्तं हि
यथा सन्धीयमानानामनेकीभवतां स्वरः ।
उपदिष्टस्तथा विद्यादक्षराणामवग्रहे ॥ इति । तदेवम् “अइउण्" (मा० स० १) इत्यादौ संहिताविरहान सन्धिरिति स्थितम् ।
के चित्तु चादिषु पाठाभिपातसंशा, "निपात एकाज" (पा० सू० १-१-१४) इति प्रगृत्यत्वं, ततः प्रकृतिभावः। यद्यपि अनिपातानामपीह प्रहणमिष्टं 'दध्यश्वः' 'दाक्षिः' 'प्लाक्षिः' इत्यादिसिद्धये, तथापि न सर्वा व्यक्तयः साक्षानिर्देष्टव्याः, आनन्न्यात, किन्तु काचिद्यक्तिनिर्दि श्यमाना स्वसहशीरितरा अपि गृण्हातीति वक्ष्यते । तत्र किं निपात. व्यक्तिरेव निर्दिश्यतामुत तदितरेति संशये आद्यकोटिरेव युक्ता। संहिताकार्यविरहेण निर्दिश्यमानरूपस्य स्फुटप्रतीतिसिद्धरित्याहुः ।
कारप्रत्ययस्तु न भवति बहुलग्रहणात् । स हि "रोगाख्यायां ण्वुल् बहुलम्" (पा० सू० ३-३-१०. ) इत्यत्रोपसंख्यातः ।
अन्ये तु "इश्तिपो धातुनि शे” ( का० वा० ) इत्यतो निर्देशश. ब्दः कारप्रत्ययविधावनुवर्तते । निर्देशश्च प्रतिपादनम् । तेन प्रयोगवि. शेषनिर्दिष्टानां वर्णानां प्रतिपादने प्रत्ययः, इह तु आनुपूर्वीसम्पादनमात्रे तात्पर्य, न तु 'कविपुत्र' इत्यादौ दृष्टानामकारादीनां प्रतिपादने । अतः कारप्रत्ययाभाव इत्याहुः ।
अनुकार्यानुकरणयोरभेदविवक्षापक्षे तु अर्थवत्वस्याविवक्षिततया वर्णवाचित्वाभावात्कारप्रत्ययाभावः । ___ अत्रेदमवधेयम् , अकारः संवृतः "विवृतकरणाः स्वराः, तेभ्य ए ओ विवृततरी, ताभ्यामैऔ विवृततरतरी, ताभ्यामप्याकारः, संवृतो. ऽकारः" इति शिक्षावाक्यात् विवृतसंवृतादयः शब्दाः शुक्लादिवद्धर्मे धर्मिणि च प्रयुज्यन्ते । तेन विवृतं करणं प्रयत्नो येषां ते तथाभूताः स्वरा इकारादय इत्यर्थः। यत्तु छन्दोगविशेषैरिवर्णोवर्णऋ. काराणां संवृततामिच्छद्भिरुक्तं "स्वृतः संवृता अन्यत्रार्भवसाम्नः" इति, तत्त तीवशाखाविशेषमात्रपरं न तु सार्वत्रिकम् । यथा सात्यमुनि. राणायनीयानामेव "सुजाते ए अश्वसुनते" "अध्वर्यो ओ अद्रिभिः सुतम्" इत्यादावेकमात्र एकार ओकारश्च न त्वनेकेषां, तद्वत्। इकारादी