________________
अइउणसूत्रेऽकारस्यविवृतसंवृतत्वविचारः। ३३ था यथा तथास्तु । अकारस्य संवृतत्वं तु निर्विवादमेव । तथाप्यसो प्रक्रियादशायामाकारेण दीर्पण प्लुतेन च सह सावर्ण्यसिद्धये विवृततः रोऽस्मिन्सूत्रे निर्दिश्यते । विवृततरत्वं च प्रयोगदशायां मा भूदिपेत. दर्थ शास्त्रान्ते "अ अ" (पा.सु०८-४-६८) इति सूत्रं कृतम् । तेन हि विवृततरमनूद्य संवृतो विधीयते । न चानुवाद्यसमर्पकेणाकारेण दीर्घः प्लुतयोरपि ग्रहणकशास्त्रबलात्सकहः स्यादिति वाच्यम्, अद इति तपरनिर्देशस्य एकशेषेण इस्वषट्कनिर्देशस्य वा सिद्धान्तयिष्यमाणः त्वात् । वक्ष्यति हि तत्र वार्तिककार:-"सिद्धं तु तपरनिर्देशाद, एकशे. पनिर्देशाद्वा स्वरानुनासिकभिन्नानां भगवतः पाणिनेः सिखम्" इति । शास्त्रान्ते च विधीयमानं प्रत्यापत्तिवचनमेव सापकमिह विकृततर उप. विष्ट.इत्यस्यार्थस्य ।
यत्नु अत्रत्यं वार्तिकम्-"अकारस्य विवृतोपदेश आकारमहणार्थ" इति, तत्र विवृतशब्दो विवृततरत्वपरः उदाहृतशिक्षातुरोधात । ननु शुक्लतरोऽपि.शुक्लो भवत्येव यथा, तथेह विवृततरस्याकारस्य विवृत. स्वानपायात्सावायें यथाश्रुतेऽपि सेत्स्यतीति चेत् ? न, सवर्णसंज्ञायां तुल्यप्रयत्नत्वस्य विवृततरत्वाद्यवान्तरधर्मपुरस्कारेणैव वक्तव्यत्वात। अन्यथा ओदौतोरपि सावापत्तौ 'गां गाः, इत्यत्रेव नावं नाव:' 'ग्लावं ग्लावः' इत्यादावपि “औतोऽम्शसोः" इत्यात्वं प्रवत । "दू. वेद" (पासू०१-१-११) इत्येकारान्तस्य विधीयमाना प्रगृह्यसंक्षा 'कर. वावहै' इत्यादावपि प्रवर्चेत । “एङ पदान्तादति” (पा०स०६-११०७) इति पूर्वरूपं 'कस्मै अदात्' 'विष्णौ अस्ति' इत्यादावपि स्याद। किंवैवं हकारादीनाश्व विवृतत्वात्सावाप्रसक्तेः "नाज्झलौ" (पा०स०. १-१-१०) इति सूत्रं न कर्तव्यमिति भाष्यसिद्धान्तो व्याकुपयेत । “ए. ओ" (मासू० ३) इत्यादिस्त्रद्वये उकारचकाररूपानुबन्धहयकरणं चेह लिङ्गम् । अन्यथा हि अन्यतरेणैव सर्वत्र व्यवहरेत् । किम्बहुनाए. कारौकारावपिन निहिशेदाकारादीनामिव सावण्येन सिद्धेरिति दिक। तस्मादत्रत्यभाज्यवार्तिकयोर्विवृतशब्दो विवृततरंलक्षयतीत्येव तस्वम्।
यहा, विवृतप्रतिक्षानसामर्थ्याद्विवृततरेण सह सावण्य सेत्स्थती. त्यवधेयम्। एवश्व भाज्यादिग्रन्थो यथाश्रुत एवास्तु । एतच्च न्यास. कारहरदत्तयोर्ग्रन्थमनुसृत्य उदाहृतशिक्षावाक्योपष्टम्भेन व्याख्यातम। परमार्थस्तु-आकारो विवृत्त इत्येव भाष्यवार्तिकस्वरससिद्धं न तु विवृततर इति । तथा च पाणिनीयशिक्षा
स्वराणामूमणां चैव विवृतं करणं स्मृतम् । शब्द. प्रथम. 3