________________
३४ शब्दकौस्तभप्रथमाध्यायप्रथमपादद्वितीयाहिके
तेभ्योऽपि विवृताडौ ताभ्यामैचौ तथैव च (पा०शि०श्लो०२१)इति ।
प्रागुकं तु मतान्तरं, न तु पाणिनीयम् । अत एव एओस्त्रे भा. 'न्यकैयटादौ अकारस्य विवृतत्वाद्विवृततराभ्यां सन्ध्यक्षरमागाभ्यां न सावर्ण्यमित्युक्तम् । एवञ्च वृत्तिग्रन्थस्यापि यथाश्रुतस्य सौष्ठवे न्यास. कारहरदत्ताभ्यां कृतं भक्त्वा व्याख्यानमनादेयम् । अथवा "नाज्झ. लौ" (पासू०१-१-१०) इति पठतः सूत्रकृतो मते विवृततरस्यापि वि. वृतत्वमात्रेण सावर्ण्यमस्तु, चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञा. यामाश्रीयन्ते इति वृत्तिग्रन्थस्वरसात् । न चैवमेचौरतिप्रसङ्गः, वर्ण. समाम्नाये पृथक् निर्देशसामर्थ्यात् अनुबन्धद्वयसामर्थ्याद्वा तत्र सावाप्रवृत्तेरिति दिक् ।
ननु 'दण्डाढकम्' इत्यादौ दीर्घेण सह दीर्घ एकादेशः सावर्ण्यस्य फलमित्यस्तु, प्लुतेन तु सावर्ण्य किं फलमिति चेत् ? 'इह अग्निदत्त' इति "गुरोरनृतः" (पा०स०८-२-८६) इति प्लुते कृते तेन सह पूर्वस्य दीर्ध एकादेशः फलमिति गृहाण । न च दीर्धे कर्तव्ये प्लुतस्यासिद्धत्वं शक्यम्, "प्लुतप्रगृह्या अचि" (पा०९० ६-१-१२५) इंतिज्ञापकेन "सि. छः प्लुतः स्वरसन्धिषु" इति वक्ष्यमाणत्वात् ।
स्यादेतत्, आक्षरसमाम्नायिकस्य अकारस्य कृतेऽपि विवृतत्वे धातुप्रातिपदिकप्रत्ययनिपातस्थस्य संवृतत्वादच्त्वं न स्यात्, आक्ष. रसमाम्नायिकेन मिनप्रयत्नानाममीषामग्रहणात् । ततश्च "शमामष्टा. नाम्" (पासू० ७-३-७४) .. इतिदीर्घोऽलोन्त्यपरिभाषयाऽन्त्यस्यैव 'स्यान त्वकारस्य "अचश्च" (पा०सू० १-१-२८) इति परिभाषाया बा. धादनुपस्थितेः। तथा 'दृषद्' इत्यत्र प्रातिपदिकस्यान्त उदात्तो भवतीत्येतन स्यात् । 'नायकः' इत्यत्र प्रत्ययाकारस्यानचत्वादाया. देशो न स्यात् । 'अवनमति' इत्यत्र "निपाता आधुदात्ताः" "उपसर्गाश्वाभिवर्जम्" (
फिसू०३-८१) इत्याद्युदात्तत्वं न स्यात् । किच"अस्य वो" (पा०सु०७-४-३२) इत्यादौ अकारस्य संवृतत्वेनानण्त्वादसति प्राहकत्वे 'शुक्लीभवति' इत्यादावेवेत्वं स्यान्न तु 'मालीभवति' इत्यादौ । न चाक्षरसमाम्नायिकस्य विवृतत्वप्रतिक्षासामर्थ्यात्तत्सदृशेषु धात्वा. विस्थेष्वपि तत्कार्यप्रवृत्तिरिति वाच्यं, 'खट्वाढकम्' इत्यादौ दीर्घ सम्पादनेन विवृतत्वप्रतिज्ञायाः साफल्ये सति सामर्थ्यविरहात् । त. थाहि, “अकः सवर्णे" (पासु० ६-१-१०१) इत्यत्र. "आदिरन्त्येन" (पासू० १-१-७१) इतिवचनादनयोरेवाकारककारयोरनुकरणमिति नि. गीतम् । तेन प्रत्याहारगतेन विवृतेनाकारण सावपर्यादीर्घप्लुतयोग्रहणे