________________
वर्णेषु जातिव्यक्ति पक्षौ ।
३६
'खट्वाढकम्' इत्यादि सिध्यति । असति तु विवृतत्वे "अस्य वो" (पा०सू० ७-४-७२) इत्यादिष्विव प्रत्याहारेष्वपि संवृतस्य हस्वस्यैव कार्य स्यान्न तु दीर्घप्लुतयोरिति फलभेदस्य स्पष्टतया व विव्रतत्वप्र तिज्ञायाः सामर्थ्यम् ?
अर्थाच्येत प्रत्यापत्त्याऽऽक्षरसमाम्नायिकस्यैव विवृतस्वं ज्ञाप्यते इति न ब्रूमः, किन्तु सामान्यापेक्षं ज्ञापकम् - "इह शास्त्रे यावानकारः स सर्वोऽपि प्रक्रियायां विवृतो बोद्धव्यः" इति । एवमपि प्रत्युच्चारणं व. र्णानां भेदेन "अस्य च्वौ" (पा०सू०७४-७२ ) इत्यादा बुच्चारितस्थानत्वेन सवर्णग्राहकता न स्यात्, किन्तु "अकः सवर्णे" (पा०सू०६-११०९) इत्यादौ प्रत्याहार एव सवर्णग्राहकत्वं स्यात् । एवमिकारादयो. पि "इकोयणचि " ( पा०सु० ६-१-७७ ) इत्यादावेव ग्राहकाः स्युर्न तु ". रनेकाचो" (पा०सू० ६-४-८२) "यस्येतिच" ( पा०सू०६-४-१४) स्यादौ ।
ननुं एक एवाकारः तत्कस्थानणत्वमाशङ्क्यते ? नचैवमुदाचानुदा सत्यादिविरुद्ध धर्मानुपपत्तिः, तेषां व्यञ्जकध्वनिधर्मत्वात् । अनुबन्धव्यवस्थाऽपि लोकवद् भविष्यति । लोके हि 'इह मुण्डो भवं, इह जटिलो भव' इत्यादिक्रमेण ऐकल्याने कधर्मोपदेशेऽपि तत्तद्देशभेदेन धर्मा व्यवति ष्ठन्ते तथेहापि "कर्मण्यण्" (पा०सू०३-२-१) इत्यत्रैव णिश्वं, "चरेष्टः" (पा०सू०३-२-१६) इत्यत्र टिश्वं, गापोष्टक् " (पा०सु०३-२-८) इत्यत्र टि. स्वकित्वे "अ साम्प्रतिके" (पा०सू०३-४-९) इत्यादौ तु नैकमप्यनुबन्धकार्यमिति व्यवस्था । अत एव " प्राग्दीव्यतोऽण्” “शिवादिभ्योण्" इत्यादौ पुनः पुनर्णित्करणं सार्थकम् । कथं तर्हि घटेन तरतीति घटिकः, "त रति” (पा०सु०४-४-५) इत्यधिकारे "नौद्वयचष्ठन् ” ( पा०सू० ४-४-७) इति ठन् ? कथं च धनस्य निमित्तं संयोग उत्पातो वा धन्यः, "तस्य निमित्तं संयोगोत्पातौ” (पा०सू०५-१-३८) इत्यधिकारे "गोयचोऽसं ख्यापरिमाणाश्वादयेत्" (पा०सु० ५-१-३९) इति चेत् ? आवृत्तिकृताद् व्यपदेशाद्भविष्यति । न च "बाहुकः' इत्यादौ मुख्यद्यचि चरिताकार्यासम्भव इति वाच्यम् अश्वादिप्रतिषेधेनेह गौणस्यापि मुख्य समकक्षताया ज्ञापनात् । अत एव 'किरिणा' इत्यादी "सावेकाचः " (पा०सू० ६-१-१६८) इति विभक्तेरुदात्तत्वं न भवति, आवृत्तिकृतेनं व्यपदेशेन स्वाथ्र्यस्य एकाव्यपदेशस्य निवर्त्तितत्वात् । नहि त्रि. पुत्रो द्विपुत्रव्यपदेशं लभते । तस्मादुक्तरीत्या बाधकाभावाल्लाघ वरूपः साधकबलाच्चाकारव्यतिरेकैवेति सर्वे सुस्थमितिचेत ? न. उदारवा दिविरुद्ध धर्माध्यासेन व्यवस्यैक्यस्य बाधात् । ध्वनिधर्मा पवैतद्रत्यु.
9