________________
व्याकरणाध्ययनफलनिरूपणम् । अयमहमित्यस्य "अनुकरणं चानितिपरम्" इति गतिसंहा। ततो गतिसमासेऽपि 'अस्यवामीयम्' इत्यादाविवानुकरणत्वादेव विभ.. केर्लुङ् न ।
याक्षिकाः पठन्ति प्रयाजाः सविभक्तिकाः कार्या इति ॥ यद्यपि प्रकृतौ प्रयाजमन्त्राः सविभक्तिका एव पठ्यन्ते, तथापि यदि आधा नादनन्तरं यजमान उदरव्यथावान् स्याद्यदि वा संवत्सरमध्ये तस्य महती विपत्स्यात्तदा नैमित्तिकी पुनराधेयेष्टिं विधाय तत्रेदमानातं"प्रयाजाः सविभक्तिकाः" इति । तत्र केवलविभकेः प्रयोगानहत्वात्प्रक: तिराक्षिप्यते। सा चाग्निशब्दरूपा न तु या काचित । निरुके देवताकाण्डे-“अथ किंदेवताः प्रयाजानुयाजाः" इति प्रश्नमवतार्य मन्त्रवर्णा दीनुदाहृत्य "आग्नेया इति तु स्थितिः" इत्युपसंहारात् । तस्मादादित. श्चतुषु प्रयाजेषु चतस्रो विभक्तयोऽग्निशब्दप्रकृतिकाः पंड्यन्ते इत्यादि श्रौतग्रन्थेषु द्रष्टव्यम् ।
नथान्यत्रापि “यो वा इमा पदशः स्वरशोऽक्षरशो वाचं विदधाति स आत्विजीनः" इति । पदंपदमिति "संख्यैकवचनाश्च वीप्सायाम् इंति शस् । स्वर उदात्तादिः । अक्षरं व्यञ्जनसहितोऽत् । ऋत्विज. महतीत्यात्विजीनो यजमानः, ऋत्विक्कर्माहतीत्यात्विजीनो याजका, "यज्ञविंग्भ्यां घखौ" इतिसूत्रेण “यज्ञविंग्भ्यां तत्कर्माहतीति चो. पसंख्यानम्" इतिवार्तिकेन च खञ् । यजने याजने च विदुष एवाधिकार इति भावः। __ ऋग्वेदेऽपि बहवो मन्त्रवर्णाः-चत्वारिशृङ्गा, चत्वारिवाक्, उतत्वः पश्यन् , सक्तुमिष, इत्यादयः। "तितउ परिपवनं भवति" इति भाष्यम् । "चालनी तितउः पुमान्" इति तु अमरस्य प्रमाद इत्येके। वस्तुतस्तू. कभाष्यानुरोधादमरग्रन्थे पुंस्त्वायोगमात्रं व्यवच्छेद्यं न त्वन्ययोगोऽपि । तथा च पुनपुंसकवर्गे-"स्याद्वास्तु हिंगु तितउ" इति त्रिकाण्डशेषः । अत एव 'तित उमाचष्टे तितापयति' इत्यभियुकग्रन्था अपि संगच्छन्ते इति दिक् ।
याशिकाः पठन्ति-"माहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीया सारस्वतीमिष्टिं निर्वपेत" इति ।
तथा-दशम्युत्तरकालं पुत्रस्य जातस्य नाम विदध्याद्धोषवदाधन्त. रन्तस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं तद्धि प्रतिष्ठिततमं भवति द्वयक्षरं चतुरक्षरं वा नाम कृतं कुर्यान्न तद्धितमिति । नामकरणे अधि. कारिणः पितुर्ये त्रयः पुरुषास्ताननु कायति अभिधचे इति त्रिपुरुषा.
शब्द. प्रथम. 2.