________________
१६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाहिकेदोषः । यज्ञकर्मणीत्यस्य निवृत्तये पुनर्विभाषाग्रहणात् । न च पर्युदास पक्षेऽप्येवमेवास्त्विति वाच्यं, नित्यविकल्पविध्यार्विषयभेदस्यावश्य कतया आरम्भसामर्थ्यादेव तन्निवृत्तिसिद्धेः । प्रसज्यप्रतिषेधे तु नार: म्भसामर्थ्य, ऊहादिष्वमन्त्रेषु चरितार्थस्य पूर्वविधैरुत्तरेण छन्दोमात्र. विषयकेण बाधसम्भवात् । न हाहादीनां छन्दस्त्वमस्ति, मन्त्रब्राह्म णेतरत्वात । तस्मादसमर्थसमासमाश्रित्यापि प्रसज्यप्रतिषेध एवाग त्या स्वीकर्तुमुचित इति चेत् ? न, पर्युदासपक्षेऽपि मन्त्रे नित्यं ब्रा. लणे वेति विषयविभागसंभवेन यज्ञकर्मनिवृत्तये विभाषाग्रहणसम्भ: वात् । उक्तापरितोषादेव तु केचिजपादिषु प्रसज्यप्रतिषेधमाश्रित्य इहाप्येक श्रुतेः प्राप्तौ सत्यां तदकरणं बहुव्रीहिस्वरकरणं च स्वरतोऽप. राधादित्यस्यार्थ इत्याहुः । श्रूयते च
यदधीतमविक्षातं निगदेनैव शब्द्यते । ___ अनमाविव शुष्कैधो न तज्ज्वलति कहिं चित् ॥ निगदेन पाठमात्रेण । शुकैध इति सान्तेन क्लीबेन एधमशब्देन अकारान्तेन वा पुल्लिङ्गेन निर्वाह्यम् । न ज्वलति न प्रकाशते निष्फलं भवतीत्यर्थः । निरुक्के तु-"अथापि ज्ञानप्रशंसा भवत्यज्ञाननिन्दा च" इत्युपक्रम्य
"स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥" इति मन्त्रमुदाहृत्य "यद्गृहीतमविज्ञातम्" इत्यादि पठितम् । तत्रा. पि गृहीतं शन्दतः, अविज्ञातं तु अर्थतः प्रकृतिप्रत्ययादिविभागेन वेत्यादि; शेषं प्राग्वत् । ___ अन्यत्रापि श्रूयते-"एकः शब्दः सम्यक् शातः सुष्ठु प्रयुक्तः स्वर्ग लोके कामधुग्भवति" इति । एतच "एकः पूर्वपरयोः" इति सूत्रे भाज्यद्वक्ष्यति । एतन्मूलकमेव कात्यायनप्रणीतेषु भ्राजाख्येषु श्लोकेषु स्मर्यते
यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद्यवहारकाले। सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥इति।
दुष्यति चापशब्दरित्यत्र अवैयाकरणः कर्ता सामर्थ्याद् बोध्यः । तधा.
अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः । कामं तेषु त विप्रोष्य स्त्रीविवायमहं वदेत् ॥