________________
व्याकरणाध्ययनफलनिरूपणम् ।
अत एव तमर्थ नाहेत्यर्थः । वागेव वज्रः हिंसकत्वात् । यजमान हिन. स्तीति । यथाध्वर्युकृताद्धोमाद्यजमाने धर्मोत्पत्तिः एवमध्वर्युकृतादप. शब्दप्रयोगाद्यजमाने प्रत्यवाय इत्यर्थः । यथेत्युदाहरणे । इन्द्रशत्रुः इन्द्र शत्रुशब्दः । पुरा किल विश्वरूपाख्ये त्वष्टुः पुत्रे इन्द्रेण हते सति कु. पितस्त्वष्टा इन्द्रस्य हन्तारं वृत्राख्यं पुत्रान्तरमुत्पिपादयिषुराभिचारिक यागं कृतवान् । तत्र च इन्द्रस्य शातयिता शत्रुः हिंसक इति यावत् तथाभूतः सन् वधस्वेति प्रतिपादितुं 'इन्द्रशत्रुर्वर्धस्व' इति प्रयुक्तम् । ण्यन्ताच्छदेरौणादिकः क्रुन्प्रत्ययः । प्रज्ञादिगणे निपातनाद् हस्वः। इन्द्रशत्रुत्वस्य विधेयत्वान सम्बोधनविभक्तिः तस्या अनुवाद्यविषय. कत्वात् । अत एव राजन् युध्यस्व राजा भव युध्यस्वेत्यनयोर्व्यवस्था यैव प्रयोगः। राजत्वस्य सिद्धत्वे सम्बोधनविभक्तिर्न तु विधेयत्वेऽपी. ति । एवं स्थिते इन्द्रशत्रुशब्दे तत्पुरुषसमासप्रयुक्तेऽन्तोदात्ते वक्तव्य प्रमादादाद्युदात्तः किलोक्तः । तथाच पूर्वपदप्रकृतिस्वरण बहुव्रीह्यर्थो लब्धः। इन्देहि धातोरोणादिके "ऋजेन्द्र” इत्यादिना रन्प्रत्यये कृते इन्द्रशब्द आद्युदात्तो व्युत्पादितः । तेनेन्द्र एवास्य हिंसकः सम्पन्न इति श्रुतीतिहासपुराणादिषु प्रसिद्धम् । तदिहोदाहरणतयोक्तम् ।
स्यादेतत्, “यज्ञकर्मणि" इत्येकश्रुत्येह भवितव्यम् । सा च तत्पु. रुषबहुव्रीह्योरविशिष्टंति । अत्राहुः-जपादिपर्युदासेन मन्त्रेष्वेव एक. श्रुतिर्विधीयते । स्वेच्छया प्रयुज्यमानश्च मन्त्रो न भवति । तदुक्तं भे. दलक्षणे जैमिनिना-"अनानातेष्वमन्त्रत्वम्” इति । आपस्तम्बश्वाहअनाम्नाता अमन्त्रा यथा प्रवरोहनामधेयग्रहणानि" इति। अत एव "मन्त्रो हीनः" इति पाठस्य शिक्षायां प्रसिद्धत्वेऽपि ऊह्यमानस्यामन्त्र. तया यथेन्द्रशत्रुरिति वाक्यशेषोऽसङ्गनः स्यादतो मन्त्रशब्दः शब्दमा. त्रपर इत्याशयेन भाष्ये "दुष्टः शब्दः" इति पठितम् । ननु स्वाहेन्द्रशत्रुर्वर्द्धस्वेति वेदे पठ्यत एवेति ? सत्यम् , ऊहितं यदमन्त्रभूतम् अनु. कार्य तदनुकरणस्य पाठेऽपि अर्थपरस्यानुकार्यस्य लौकिकत्वानपाया. त् । नन्विन्द्रशत्रुशब्दस्य लौकिकत्वे कथं स्वरप्रयुक्तयोर्गुणदोषयोः प्रसक्तिः स्तरस्य वेदमात्रविषयकत्वादिति चेत् ? न, स्वरविधौ छन्दोधिकाराभावात् । एतावानेव हि भेदः-यच्छन्दसि त्रैस्वर्यमेकश्रुतिश्च व्यवस्थयाऽऽश्रीयते, लोके स्वैच्छिको विकल्पः । अत एव एक श्रुत्या सूत्रपाठस्त्रस्वर्येण वेति पक्षद्वयमपि तत्रतत्रोपन्यस्तमिति वक्ष्यामः ।
नन्वेवं "उच्चस्तरांवा" इतिसूत्राद्विकल्पानुवृत्यैव सिद्धौ ‘विभाषाछन्दसि" इत्यत्र विभाषाग्रहो व्यर्थः स्यात् । प्रसज्यप्रतिषेधे तु नायं