________________
अयोगवाहानामाक्षरसमानाये उपदेशः।
न्यतः श्रुतं कार्यित्वं बाध्यते । यथा 'ब्राह्मणा भोज्यन्तां, माठरकौण्डि. न्यौ परिवेविष्टाम् , इति विशेषतः श्रुतेन परिवेषणेन माठरकौण्डिन्ययोः सामान्यतः प्राप्तं भोजनं बाध्यते, तद्वत । यद्यपीह लक्ष्यव्यक्तिभेदेनोभयं सम्भवति, सत्यपि सम्भवे सामान्यतः प्राप्तं विशेषप्राप्तेन बाध्यते इ. त्यभ्युपगमात्र दोषः । एवञ्च "अचो रहाभ्याम्" (पा० सू०८-४-४६ ) इति सूत्रे यर इति रेफभित्रपरमेवेति स्थिते "अनचि च" (पा०सू०८-४ ४७) इत्यत्रापि तथैवं अर्थाधिकाराश्रयणात् । तेन 'हर्यनुभवः' इत्या. दावपि रेफस्य न द्वित्वम् । नन्वेवं दध्युदकादौ यण न स्यात, विशेष. तः श्रुतेन स्थानित्वेनेकां निमित्तत्वस्य बाधादिति चेत् ? न, तत्र लक्ष्या. नुरोधेन व्यक्तिपक्षाश्रयणात् । व्यक्तिपक्षे हि प्रतिलक्ष्यमसकल्लक्षणं प्रवर्तते । यद्वा, प्रतिलभ्यं भिन्नानां सर्वेषां लक्षणानां तन्त्रेणोच्चारणम् "इको यणचि" (पा सू०६-१-७७) इति । ततश्चेकामपि तात्पर्यतो निमित्तत्वप्रतिपादनाददोषः । नचैवं 'श्रीशः' इत्यादावपि यणप्रसङ्गः, व्यक्तिपक्षे विप्रतिषेधे परमेवेति नियमबलेन तद्यक्तिविषयकशास्त्रस्यैः व विरहकल्पनात् । एवमपवादविषयेऽपि 'सुधियौ' इत्यादौ बोध्यम् । "परिहत्यापवादविषयं तत उत्सर्गो ऽभिनिविशते" इति न्यायात् । जातिव्यक्तिपक्षौ च लक्ष्यानुरोधाद्यवस्थयाऽऽश्रीयेते इति पस्पशा. यामेवोक्तम् । “तस्मादित्युत्तरस्य" (पासू०१-१-६७) "पत्युत्तरपदा. पण्यः" (पा०स०ए०४-१-८५) इत्यादिनिर्देशाचेह लिङ्गम् । भाप्ये तु "ने. मौ रहौ कार्यिणौ द्विवचनस्य, किं तर्हि निमित्तमिमौ" इत्युक्तम् । तत्र हकारग्रहणं दृष्टान्तार्थ, तस्य यर्बहिर्भूततया यथा न द्वित्वे कार्यिता तथा यरन्तर्भूतस्यापि रेफस्येति । एवमनुनासिकपरसवर्णविधी अपि स्थानेन्तरतमपरिभाषासंस्कृतौ स्थानप्रयत्नोभयान्तरतमे 'एतन्मुरारिः' 'स्वङ्करोषि' इत्यादौ कचिल्लब्धावकाशौ अनन्तरतमे प्रागुक्ते न प्रवर्तते जातिपक्षाश्रयणादेवेति संक्षेपः । अत्र वार्तिकम् -"अयोगवाहानामट्सु णत्वं, शधू जराभावषत्वे, अविशेषेण संयोगोपधसंशाऽलोन्यविधितिः वचनस्थानिवत्वनिषेधाः" इति । अस्यार्थः-अविद्यमानो योगः प्र. त्याहारेषु सम्बन्धी येषां तेऽयोगाः अनुपदिष्टत्वादुपदिष्टैरगृहीतत्वाश प्रत्याहारसम्बन्धशून्या. इत्यर्थः। वाहयन्ति निर्वाहयन्ति प्रयोगमिति वाहाः, अयोगाश्च ते वाहाश्चेति कर्मधारयः । अनुपदिष्टत्वे उपदिष्टुर. गृहीतत्वे च सति श्रूयमाणा इत्यर्थः । "ते च विसर्जनीयजिव्हामू. लीयोपध्मानीयानुस्वारयमाः" इति भाज्यम् । एतच "ऋति ऋar" (का०वा०) "लुति लया" (काभ्वा०) इति विहितयोरीषत्स्पृष्टयोरप्युः