________________
५४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके
पलक्षणम् । तथाच तुल्यास्यसूत्रे भाग्यम्- 'तयोरच्वं वक्ष्यामि" इति । तत्फलं तु तत्रैव स्पष्टम् । तत्र यमानां लक्षणमनुनासिकसं. शास्त्रे प्रपञ्चयिष्यामः । एषामट्सूपदेशः कर्तव्यः, णत्वं फलम् । 'उर.. केण' 'उरःपेण' 'उर ४ केण' 'उर पेण' अड्व्यवाये इति गत्वं विसर्जनीयजिह्वामूलीयोपध्मानीयव्यवायेऽपि सिध्यति । नायमझाताद्यर्थे का, “सोऽपदादौ" (पा०स०८-३-३८) इति सत्वप्रसङ्गात् । किन्तु उरः कायति उरम्पातीति विग्रहः । "कै शब्दे" "पा रक्षणे" (अ०प०) आ. भ्याम् "आतोऽनुपसर्गे कः” (पासू०३-२-३) "कुप्वो कापौ च" (पासू०८-३-३७) इति चकारात पाक्षिको विसर्गः । न चैवमपि गतिकारकोपपदानां प्राक्सुबुत्पत्तेः समासाभ्युपगमात् "सोपदादो" (पासू०८-३-३८) इति प्रवर्त्ततेति वाच्यम् , तस्य 'दधिसेचौ' 'धन. कीता' इत्यादिसिद्धार्थमनित्यताया वक्ष्यमाणत्वात् "पाशकल्प" (का. वा०) इत्यादिपरिगणनाश । 'प्रोम्भणम्' "अटकुप्वाङ्"पा०स०८-४-२) इतिसूत्रे नुमग्रहणं न कर्त्तव्यं भवति । ___ अत्रेदमवधेयम्-असु क्रियमाण उपदेशोऽकारानन्तरमिकारात् प्राकर्तव्यः। तेनेण्सु अनन्तर्भावात् 'पयः सुयशःसुइत्यादौ "इण कोः" (पा००८-३-५७) इत्यधिकृत्य विधीयमानम् "आदेशप्रत्यययोः" (पा० सु०८-३-५१) इति षत्वं न भवति । अक्षु चान्तर्भावात 'संस्कर्ता' इत्यत्रानुस्वारादत्रः परत्वमाश्रित्य सकारस्य द्वित्वं कैयटेनाष्टमे वक्ष्यमाणं संगच्छते । न चैवं 'हरिः करोति' इत्यादी "इको यणचि" (पासू. ६-१-७७) इति यप्रसङ्गः, विसर्गस्यासिद्धत्वात् । एवं 'हरिः पश्यति' इत्यादावनुस्वारस्यासिद्धत्वं बोध्यम् ।
शर्षु चोपदेशः कर्त्तव्यः । जश्भावस्तावत्प्रयोजनम् । तथाहि, वा. तिकमते "उब्ज आजवे' (तु०१०) इति धातुरुपध्मानीयोपधः पठ्यते । तत्र "झलां जश् झशि" (पासू०८-४-५३) इति जश्भावे आन्तरतम्या. इकारादेशः-"उब्जिता' 'उब्जितुम्' श‘पदेशाद्धि नान्तरीयकत्वादेव झल्वमन्यायाति । भाष्यकारस्तु नैतन्मेने । तथाहि, उपध्मानीयो. पधत्वपक्षे 'उजिजिषति' इति न सिध्यति, अभ्यासे बकारमात्रश्रय 'णप्रसङ्गात् । हलादिःशेषण जकारस्य निवृत्तिः। यदि तु "पूर्ववासि. बमद्विवचने". (प०मा०१२५) इत्युकेः सबकारस्य द्वित्वं सदा स्पष्ट एव बकारस्य शेषः। अथ "उमौ साभ्यासस्य" (पासू०८-४-२१) इत्यनेनानित्यतामापनाद् द्विवचनेप्यसिद्धत्वमाधीयते, 'औजिढत्' इत्यत्र षथा, तथाप्यभ्यासे उपध्मानीयस्य शेषे "मासे चर्च" (पासू०८