________________
अयोग वाहानामाक्षरसमाम्नाये उपदेशः ।
"
४-५४) इति जश्त्वेन बकार एव श्रूयेत । इष्यते स्वभ्यासे जंकार इति प्राञ्चः । वस्तुतस्तु द्वितीयपक्षे उपध्मानीय मात्रमभ्यासे श्रूयेत तोचारयितुमप्यशक्यम् । जश्त्वं तु दुर्लभं प्रकृतिचरां प्रकृतिचर इत्यष्टमे सिद्धान्तयिष्यमाणत्वात् उपध्मानीयेऽच्त्वस्यापि सखेन तावन्मात्र. द्वित्वापस्याभ्यासे इकारदौर्लभ्याच्च । किश्च अत्र पक्षे अस्मात् घञि कृते उपध्मानीयस्य जश्त्वे 'अभ्युब्जा:' 'समुब्जा:' इति स्यात् । इष्यते तु 'अभ्युद्भः' 'समुद्रः' इति । नन्वत एव "कुप्वोः " (पा०सू०८-३-३७) इत्यधिकारे "लोपदादी" (पा०सु०८-३-३८) इति सूत्रे 'उपध्मानीयस्य च' इति वार्त्तिकेन कवर्गे परत उपध्मानीयस्य सकारो विधयते । ततो जश्त्वेन दत्वं विधीयते इति चेत् ? सत्यम्, 'उपध्मानीयस्य च' इति वार्त्तिकारम्भ एव तु गौरवाई इति ब्रूमः । बकारोपधोऽयमिति वृत्तिकारमते तु बकारस्य द्वित्वनिषेधः 'समुद्रः' इत्यादी दकारादेश. श्वेत्युभयमपि वचनेनैव साधनीयं स्यात् । तस्माद्दकारोपध एवायम 'अभ्युद्रः ' 'समुद्रः' इति यथा स्यात् । कथं तहिं 'उब्जिता' 'उब्जितुम्' इत्या दि सिध्यतीति चेत् ? शृणु, "भुजन्युब्जौ पाण्युपतापयोः” ( पा०सु०७३-६१) इत्यस्मिन्कुत्वाभावनिपातनार्थे सूत्रे बकारोच्चारणेनानुमीयते - उब्जेर कुत्वविषये दकारस्य भकारविधायकं बकारविधायकं वा वचनमस्तीति तच्चानुमीयमानं वचनं 'भ उद्जेः' इति वा 'ब उदूजेः' इति वा । उभयथापि "हतोः श्चुना श्चुः" (पा०सु० ८ -४ - ४० ) इत्यस्यानन्तरं कल्पते । उद्ज्ञेः स्तोर्दकारस्येति यावत् । श्चुना योगे भकारो बकारो वा भवतीति सूत्रार्थः । उद्जेरिति किम् ? तज्जः । श्चुनेति किम् ? अभ्युद्रः समुद्रः । इह हि "चजोः कुधिण्ण्यतो : " ( पा०सु०७-३-५२ ) इति कुत्वे कृते चुना योगो नास्ति, 'स्तोः' श्चुना' इति पदद्वयोपजीवनार्थे चोकस्थले एव कल्पनं युक्तम् । अन्यथा बहुतरकल्पने गौरवं स्यात् । एवम 'उब्जिजिषति' इत्यपि सिद्धम् "नन्द्राः " ( पा०सू०६-१-३) इति दकारस्य द्वित्वनिषेधात् । न च परत्वाद्भत्ववत्वे " पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य " (भा०६०) इति वक्ष्यमाणत्वात् । अन्तरङ्ग त्वाद्रवत्वे इत्यपि न, असिद्धत्वादेव । न च " पूर्वत्रासिद्धीयमद्विर्षचने” (प०भा०१२५) इत्यसिद्धत्वप्रतिषेधः शङक्यः, द्वित्वे कर्त्तव्ये सति हि स निषेधः, न तु द्वित्वनिषेधेऽपि । इह तु "नन्द्रा : " ( पा०सू०६-१-३) इति सूत्रेण द्वित्वनिषेधे कर्त्तव्ये निर्बाधमेवासिद्धत्वमिति दिक् ।
अथवा माऽस्तु वाक्यशेषानुमानं, “भुज न्युब्जी (पा०सू०७ - ३-६१ ) इति निपातनादेव बकारोऽस्तु । न चैवमसिद्धताविरहाद्वकारस्यैव