________________
५२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके
(भा०१०) इत्येतद्विजातीयः सवर्णो नास्तीत्येवं परम् । स्वस्य स्वयं सवर्णो भवत्येव, तुल्यास्यप्रयत्नत्वात् । "रो रि" (पासू०८-३-१४) इति लोपस्तु नास्ति तं प्रति परसवर्णस्यासिद्धत्वात् । अथ द्वित्वोनुः नासिकपरसवर्णनिवृत्तये यवाभ्यां पूर्वत्र रेफोऽनुकृष्येत-"हरयवट्" इति ? तर्हि "रलो व्युपधाद" (पासू०१-२-२६) इत्येतद्वकारान्तेष्वपि प्रवर्तत । ततश्च देवित्वा' 'दिदेविषति' इत्यत्र पक्षे गुणो निषिध्येत । नन्धव्युपधादिति च्छित्वा अवकारान्ताद् व्युपधादिति व्याख्यास्यते इति चेत् ? एवमपि 'गौधेरः' 'पचेरन्' इत्यादी "लोपो व्योः" (पा० स०६-१-७६) इति न प्रवत्त, रेफस्य वल्यनन्तर्भावात् । रिलि' इति वक्ष्यामीति चेत् ? "हय गती" (भ्वा०प०) 'हय्यात्' इत्यादौ यकारेऽति. प्रसनः । ननु यथाश्रुते एव सूत्रे 'वलि' इति सरेफं पदं छित्वा रेफे वलि चेति व्याख्यानानोकदोष इति चेत् ? एवमपि "इको रणचि" (पासू०६-१-७७) "संयोगादेरातोधातोरण्वतः" (पासू०८-२-४३) "उदात्तरणो हल्पूर्वात" (पा०स०१-१-४५) "इग्रणः सम्प्रसारणम्" (पासू०१-१-४५) इत्यादिक्रमेण यण्ग्रहणानि सर्वाणि रेफेण ग्राह्याणि स्युः । न चैतावतापीष्टनिर्वाहः “इको रण" इत्यत्र संख्यातानुदेशेनेकारस्य रेफः उकारस्य यकारः ऋकारस्य वकार इति बहूपप्लवप्रसङ्गात् । ननु यथाश्रुतेऽपि यथासंख्येन निर्वाहो दुरुपपादः । तथाहि विधीयमानतया यवलाः सवर्णान्न गृह्णन्तीति चत्वारस्तावद् यणः, गुणानामभेदकतयाऽनुनासिकसकहेऽपि पृथगा. जनाविरहात् । इकस्तु सवर्णग्रहणात् षट्षष्टिः । न च षट्पष्टरुपस्थापकानामिक्शब्दवाच्यानामिकारादीनां चतुष्टुमस्त्येवेति वाच्यम्, तृतीयचतुर्थाभ्यामृकाराभ्यां प्रत्येकं तस्या एवं त्रिंशत उपस्थिती सत्याम् लकार रेफादेशस्य प्रकारे च लकारादेशस्य दुर्वारस्वात् । तस्मात् “स्थानेऽन्तरतमः"(पा०सु०१-१-५०) इत्यनेनैव प्रकृते निर्वाहः । यथासङ्ख्यसूत्रं तु "नन्दिग्रहिपदादिभ्यः" (पा०स०३-१-१३४) इत्या. दिष्पयोक्ष्यते इत्येव निष्कर्षः । तथा च 'इकोरण' इति न्यासेऽपि तेनैव निर्वाहोऽस्त्विति चेत् ? न, वैषम्यात् । यथाश्रुते यविरोधात्परिभाषा. द्वयमपि "इको यण्" (पा००६-१-७७) इत्यत्र प्रवर्त्तते । इको यथासं. ख्यमन्तरतमो यण स्यादिति । रणिति न्यासे तु परिभाषयोर्विरोधात परत्वेन यथासंख्यमेव प्रवर्तत । तस्मदनुचितो रेफस्य स्वस्थानाद. पकर्षः । यथाश्रुते तु द्वित्वादिदोषत्रयं दुर्वारमिति ।।
अत्रोच्यते, रेफस्याविशेषतः श्रुतेन द्वित्वं प्रति निमित्तत्वेन सामा