________________
हकारग्रहणप्रयोजनम् । वायेऽपीति णत्वं न स्यात्।'महान् हि' इति स्थिते महाँहि' इति न स्यात् । अत्र हि "दीर्घावटि समानपादे" (पासू०८-३-९) इति रुः, "मातोऽटि नित्यम्" (पासू०८-३-३) इत्यनुनासिकः,"भो भगो अघो अपूर्वस्य (पा० सू०८-३-१७) इति यत्वम् , “हलि सर्वेषाम्" (पासू०८-३-२२) इति यलोपः । तत्राप्यीत्यनुवर्तत इति वक्ष्यते । 'ब्राह्मणो हमति' इत्यत्र "हर्शि च" (पासू०६-१-११४) इत्युत्वं न स्यात् । तथा 'लिलिहिदवे, लिलिहिध्वे, इत्यत्र "विभाषेटः” (पासू०८-३-७९) इति मूर्धन्यविक. ल्पो न स्यात् । तत्र हि "हणः पीध्वम्" (पा०सू०८-३-७८) इतिसूत्रा. दिण इत्यनुवर्तते । तदेवमटि अशि हशि इणि चेति चतुर्यु ग्रहणं प्रथः मोपदेशस्य फलमिति स्थितम् ।
यदि तु परत्र नोपदिश्येत, वल्रल्झल्शल्पाहणेषु न गृह्यत । तत. श्च 'रुदिहि' 'स्वपिहि' इत्यत्र "रुदादिभ्यः सार्वधातुके" (पासू०७-२७६) इति वलादित्वप्रयुक्त इन स्यात् । "रिणह प्रीतो" (दि०१०) 'स्निहित्वा, स्नेहित्वा' 'सिस्निहिषति, सिस्नहिषति' इत्यत्र "रलों व्युपधात्" (पा०स०१-२-२६) इति कित्त्वं न स्यात् । 'अदाग्धाम्' 'अदाग्धम्' इत्यत्र घत्वस्यासिद्धत्वाद्धकारादझलः परः सिजिति “झलो झलि"(पासू०८-२-२६) इति न प्रवर्त्तत । 'अधुक्षत् 'अलिक्षत्' इत्यत्र "शल इगुपधादनिटः” (पासू०३-१-४५) इति क्सो न स्यात् ।
तस्मात्प्रत्याहाराणां चतुष्टये प्रथमोपदेशस्य चतुष्टये च द्वितीयोप. देशस्य फलमस्तीति स्थितम् ।
स्यादेतत् , रेफस्य यार्याणि प्राप्नुवन्ति । तद्यथा 'मद्रहदो' 'भद्रहदः' इत्यत्र अचः पराद्धकारात् परस्य यर इति विधीयमानं द्वित्वं 'नास्ति' इत्यादौ यकारस्येव प्राप्नोति । न च "रोरि" (पा.सू. ८-३-१४) इति लोपः सुकरः, लोपं प्रति द्वित्वस्यासिद्धेः । "हलो यमाम्" (पा०स०८-४-६४) इति लोपस्तु वैकल्पिक इति वक्ष्यमाणत्वात् पक्षे रेफद्वयं श्रूयेत । न च व्यञ्जनपरस्यैकस्यानेकस्य वा उच्चारण विशेषो नास्तीत्यसिद्धवत्सूत्रे भाष्यकृता पक्ष्यमाणत्वान्नायं दोष इति वाच्या समवाददुर्लक्ष्यो विशेष इति तदर्थात् । न तु सर्वथा वि. शेषांकभि । "शरोचि" (पासू०८-४-४९) "हलो यमाम" (पासू०८-४-६४) इत्यादिशास्त्रवैयापत्तेः । तथा 'चतुर्मुखः' इत्यादी "यरोऽनुनासिकेऽनुनासिको वा" (पासु०८-४-४५) इति पक्षे णकारः प्रवत, स्थानसाम्यात् । 'कुण्डं रथेन'इत्यादौ "वा पदान्तस्य" (पा. सू०४-४-५९) इति पक्षे रेफः प्रवर्तेत । "रफोमणां सवर्णा न सन्ति"