________________
, HHA
५० शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहि केभावः" (ऋ०मा०५-५७) इति । प्रकृते तु नस्य गत्वं नतिः, तत्रे प्रतिविधानम्-"छन्दस्य॒दवप्रहात" ( पासू०८-४-२६ ) इत्यत्र योगविभागः कार्यः, ऋतः, ऋतः परस्य नस्य णः स्यात् , 'गृणाति' 'वृणोति' इत्यादि । ततः-छन्दस्यवग्रहात् । ऋत इत्येव, 'पितृयाणं' 'घुमत्' इत्यादि । नन्वेषमपि तपरकरणात् 'पितृणाम्' इत्यादौ णत्वं न स्यादिति चेत् । एवं तर्हि लत्वविधाविवेहापि रषाभ्याम्' इति रेफतत्सरशभागसाधारणी जातिर्निहिश्यते क्षुम्नादिषु तृमोतिशब्दपा. ठानबापकार । न च परयाऽज्भक्त्या व्यवधानं, 'व्यवायेऽपि' इति विभज्य सामान्येन व्यवायेऽपि णत्वविधानात्। न चैवं कृतेन' इत्यादाव. तिप्रसा, "अट्कुप्वाइनुभिः" इति नियमात् । आक्षरसमानायि
स्तत्प्रत्यायितैर्वा व्यवाये यदि भवति तातैरेवेति नियमसूत्रस्यार्थः । यद्वा तृमोतिशब्दपाठेन "होतृपोतृप्रशाम्तृणाम्" (पासु०६-४-११) इत्यादिनिर्देशेन व ऋवर्णान्नस्य णत्वमेव ज्ञाप्यते लाघवात । एवं हि व्यवायऽपीति योगविभागोऽपि न कर्तव्यो भवतीति । भाष्ये तु "वणे. कदेशा वर्णग्रहणेन न गृह्यन्ते" इति द्वितीयोऽपि पक्षः समर्थितः । स तु बहुप्रतिषिधेयत्वेन गौरवभयानह प्रपंञ्च्यते ।
ननु यदि वर्णेकदेशा वर्णग्रहणेन न गृह्यन्ते तर्हि 'कुक्कुटः' 'पि. प्पली' 'पित्तम् इत्यादौ संयोगसंक्षा न स्यात् अखण्डस्य मात्राकालस्य क्पत् इत्यस्य एकहत्त्वात् । तदवयवयोश्च हलग्रहणेनाग्रहणात् । नन्वखण्डस्यानुपदेशात् कथं हलत्वमिति चेत् ? मा भूत्तर्हि तदपि । अवयवानां हलत्वं तु कुतः१ 'सरजन्ता' 'संवत्सरः''यल्लोकम्' इत्यादौ तु एकवर्णानामपि हल्वं भविष्यांत, अण्सूपदिष्टैग्रहणात् । तदवयव. योस्तु हल्वं न स्यादेव । ततश्च संयोगसंज्ञाविरहे ततः पूर्वस्य गुरु. स्वाभावे प्लुतो न स्यादिति । अत्राहुः, व्यञ्जनमर्धमात्रमेव । आशूच्चा. रणातु तुल्यरूपयोयोरकत्वभ्रमः । इदं च शिष्टसमाचारात् प्रक्रिया: दशायामवश्यं बोकार्यम् । परमार्थदशायां तु
पदे न वर्णा विद्यन्ते वर्णेववयवा न च ।
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ॥ इति वाक्यपदीयोक्तरीत्या स्फोटं सिद्धान्तयतां कास्य पूर्वपक्षस्यावसरः॥
हयवरट (मा०सु०५) हकारोऽयं द्विरुपदिश्यते । यदि तु परत्रैवोप. दिश्यतें अडरग्रहणेषु न गृह्येत । ततश्च 'अhण' इत्यत्रा(१)व्य.
(१) 'भट्कुप्वानुम्व्यवायेऽपि" (पा०स०८-१-२) इति सूत्रेणेत्यर्थः ।