________________
૪૮
शब्द कौस्तुभ प्रथमाध्यायप्रथमपाद द्वितीयाहिके—
इति, तत्रेदं वक्तव्यम्-थकारस्थानिको धकारस्थानिको वा दकार इत्येवंरूपो यत्नस्तावदेओसुत्रे स्थित्वा पूर्वाचार्यैरेवोक इत्यत्रत्यकै - यटग्रन्थ एव स्फुटम् । नन्वत एवास्माभिरादृत इति ब्रूमो नतुनीत इतीति चेत् ? सत्यमाहतः, तथापि परिभाषाया अदर्शनादित्यसिद्धो हेतुः "अङ्गस्य " ( पा०सू०६-४- १) इति सूत्रप्रत्याख्यानाय भाष्ये कण्ठरवेणैव एतत्परिभाषोपन्यासात् । 'निरुतं' 'दुरुतम्' इत्यादिसिद्धये सूत्रं कर्त्तव्यमिति स्थिते व्यर्थेयं परिभाषेत्याशय इति चेत् ? तथापि थकारधकारस्थानिको दकार इत्यर्थ इति व्याख्यानक्लेशो निष्फलतया मूलस्वरसविरुद्धतया चादरणानई एव। “दिव उत्" (पा०सू०६-११३९) इत्यादी "तित्स्वरितम्" (पा०सु०६-१-१८५) इत्यस्य प्राप्तेरेव वि. रहेण दकारप्रश्लेषादेर्निर्बीजत्वात् । तथाहि उदित्येषा उकारस्य संज्ञा तया प्रत्यायित उकारस्तु विधीयते । तथाच संज्ञायास्तित्वेऽपि संज्ञिनः किमायातम् ? वस्तुतस्तु संज्ञापि तान्ता न तु तित् । " तपरः " ( पा० सू०१-१-७०) इति हि सूत्रितं न तु तिदिति । यदि हि संज्ञावत् संश्यपि तान्त एव तर्हि "अतो भिस पेस्" (पा०सू०७-१ - ९) 'भवद्भिः' इत्यादावेव स्यान्न तु 'वृक्षैः' इत्यादौ । “तपरस्तत्कालस्य" (पा०सु०१-१७०) इति सूत्रं च व्यर्थमेव स्यात् "स्वं रूपं शब्दस्य " ( पा०सु०१-१-६८) इत्यनेनैव गतार्थत्वात् । न च ङमुडादाविव संज्ञायां कृतं लिङ्गं संज्ञिनि लब्धुं शक्यम्, तद्वदिह सामर्थ्याविरहात् । एवञ्च "तित्स्वरितम्” (पा०सु०६-१-१८५) इति सूत्रे भाष्यवार्त्तिकग्रन्थः सर्वोऽप्यभ्युपेत्यवाद एव । "स्थास्वोरिच्च" (पा०सू०१-२ - १७) इति सूत्रे इत्र कस्य तकारेत्वमित्यादिग्रन्थोऽप्येवमेव । तस्मान्नायं तकारः किन्तर्हि दकार इति इद्दत्यभाष्यग्रन्थो यथाश्रुत एव साधुरिति सहृदयैराकलनीयम् । अयमेव च ग्रन्थोऽभ्युपेत्यवादरूपतामुत्तरग्रन्थानां गमयति । एतेन "भौत्” (पा०सु०७-३ - ११८) "इटोऽत्" (पा०सु०३ -४ -१४६ ) इत्यादिष्वपि विधेयस्य तपरत्वाभावो व्याख्यातः । तित्त्वं तु दूरापास्तमिति दिक् ।
•
इह अकारादयो वर्णाः सांशा इष्यन्ते । यदाह "तस्यादित उदा तमर्द्धहस्वम् ।” (पा०सु०९ - २ - ३२) पूर्वस्यार्द्धस्यादुत्तरस्येदुताविति । वार्त्तिककारोप्याह- "ऐचोश्चोत्तरभूयस्त्वात्” इति । तत्र सन्ति केचि दंशाः स्वतन्त्रवर्णान्तरसदृशाः, यथा आकारादिष्वकारस्य सदृशौ भागौ, पक्षु पूर्वभागोऽकारस्य उत्तर इवर्णोवर्णयोः, ऋकारे उभयतोऽज्भकरर्द्ध मात्रा मध्ये रेफस्य सदृशोऽर्द्धमात्र भागः, लकारेऽप्युभयतोऽ
भक्तिः मध्ये स्वतन्त्रलकारसदृशो भागः । तत्र स्वतन्त्रतचद्वर्णग्रहणेन.