________________
तपरसूत्रे पञ्चमीतत्पुरुषविचारः ।
वा आकारोपीत्यादिसन्देहः स्यात् । तत्र च "मालादीनां (पा०सु० ६-२-९५) इत्यादिज्ञापकानुसरणक्लेशः स्यादिति दिक् ।
6.8
युक्ततरश्चायमेव पक्षः । आद्यपंक्षे हि वृद्धिसंज्ञायाम् आ इति दीर्घस्यानपवनः सवर्णग्राहकतया तपरकरणमैजर्थमिति स्थिते ङमुटीव सामर्थ्यमस्तु, गुणसंज्ञायां तु तपरकरणस्योभयार्थताभ्युपगमात्पूर्वत्र चरितार्थस्य क्व सामर्थ्य येनेदं संज्ञिनोरेदोतोरुपकुर्यादिति तत्र सवर्णग्रहणं स्यादेव । अस्मिन्नपि पक्षे "एकादेशे दीर्घग्रहणम्” इति वार्त्ति कं दीर्घस्यैव संशित्वादिति पूर्ववदेव व्याख्येयम् ।
स्यादेतत् प्रथमपक्षे तादपि परस्य तत्कालग्राहकत्वाद् "ऋदोर. प्” (पा०स्०३-३-५७) 'यवः' 'स्तवः' इत्यादावेव स्यान्न तु 'लवः 'पवः ' इत्यादावपीति चेत् ? अत्र भाष्यम्, नायं तकारः किं तर्हि असन्देहार्थो मुखसुखार्थो वा दकारोऽयमिति । नन्वेतद्भाष्यं “ तितिप्रत्ययग्रहणम्" ( का०वा० ) इत्येतद्वार्त्तिकप्रत्याख्यानपरेण "तित्स्वरितम्” ( पा०सू०६-१-१८५ ) इत्यत्रत्यभाष्येण सह विरुध्येत । तथाहि, तत्र तिति प्रत्ययग्रहणं कर्त्तव्यम् । इह मा भूत् - " दिव उत्" (पा०सू०६-११३१ ) 'शुभिरक्तुभिः' इति पूर्वपक्षयित्वा दिवमाश्रित्य समाहितम् । ततो भाव्यमानस्याप्युकारस्य " अदसो सेर्दाद्” ( पा०सु०८-२-८० ) इत्यत्रेव सवर्णग्राहकता स्यादित्याशङ्क्य तपरसूत्रे दकारस्यापि चभूतस्य निर्देशाद्दपरोऽपि तत्कालग्राहक इति परिहृतम् । एवञ्च "उ र्ऋत्" (पा०सु०७-४-७) इत्यादावपि दपरत्वमेव । अन्यथा स्वरितप्रसङ्गात् । अयमेव च दपरनिर्देशो भाव्यमानस्याप्युकारस्य सवर्णग्राहकतां ज्ञापयतीति स्थितम् । इह तु 'ऋदो:' ( पा०सू०३-३-५७) इति द कारनिर्देशात् 'लवः 'पवः' इत्यादौ दीर्घेऽपीष्टं साध्यते ।
अत्र प्राञ्चः-धकारस्थानिको धकारस्थानिको वा दकारोऽत्र भायकृतो विवक्षितः, अतो न पूर्वोत्तरविरोध इति । ऋजवस्तु वार्षिकमते स्थित्वेदं भाष्यमतो न विरोध इत्याहुः । वस्तुतस्तु "तपरस्तत्कालस्य” (पा०सू०१-१-७०) इत्यत्र दकारो न निर्दिश्यते प्रयोजनाभावात् । "दिवउत्" (पा०सु०६-१-१३१) "ऋतउत्" (पा०सू०६-१-१११) इत्यादौ तु तपरत्वादेवेष्टसिद्धिः । नन्वेवं "तित्स्वरितम्" (पा०सू०६१-१८५) इत्यस्य प्रसङ्ग इति चेत् ? न, " प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम्” (प०भा०१००) इति परिभाषया तत्समाधानात् । यन्तु "तिस्वरितम्” (पा०सु०६-१-१८५) इति सूत्रे हरदत्तेनोक्तम् - "तस्यास्तु परिभाषाया भाग्यवार्त्तिकयोरिहादर्शनादयं यत्नो महानस्माभिरादतः"