________________
४०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके
' होलकारः, इत्यत्र "इकोऽसवणे" (पासू०६-१०.१२७) इत्यस्य प्र. वृतिप्रतिबन्धेन चरितार्थः । न च "ऋत्यकः” (पासू०६.१ १२८). त्यस्य प्राप्तिः, प्रहणकशास्त्राभावादेव । एवंच दीर्घ सम्पाद्य कृतार्थ ल. कारपाठः सावामित्यत्वमपि कथं झापयेदिति । तस्मादग्रहणं प्रत्या. पक्षाणस्य तत्स्थाने ऋग्रहणं कर्तव्यम् , अप्रत्ययग्रहणं चन कार्यमि. त्याशयः कल्प्यः । यद्यप्येवं परलप्रभृतीनां लूदितां "नागलोपि"(पा०सू० १.४.१) इत्यदित्कार्य प्राप्नोति, पृथगनुबन्धकरणं तु लदित्वप्रयुक्तस्य अादेशस्य ऋदित्स्वप्रवृत्या चरितार्यत्वादसङ्करं शापयितुमसमर्थ, त यापि साधयानित्यतयैवेदमपि समाधेयम् । यद्वा, स्वरसन्धिप्रकरणे लवर्णस्य कवद्भाव एव वाच्यः, सावर्ण्य च नोपसंख्येयं प्लुतस्तु प्र. करणान्तरस्थ इति न तत्रातिदेशप्रवृत्तिः। "उरण रपरः" (पा.सू.१..१ ५१) इति परि(१)भाषा तु कार्यकालतया स्वरसन्धिप्रकरणस्थति उरि. त्यनेन लवर्णग्रहणोपपत्तिः। अस्मिन्नपि पक्षे लकारोपदेश इह कर ध्य एव.'क्ल३प्तशिखः' इत्यत्र प्लुतो यथा स्यात्, क्लप्त इति च हि. स्वम , प्रक्लप्त इति च स्वरितः। अत्र ह्यन्तर्भावितण्यर्थात् कर्मणिक्तः। तेन “गतिरनन्तरः"[पा०स०६..२.४९] इति पूर्वपदप्रकृतिस्वरः, कर्मणि यःकस्तदन्ते उत्तरपदे तद्विधानात् । ततः शेषनिघाते कृते "उदासाद नुदात्तस्य स्वरितः" [पा. सू. ८.४.६६] 1.न चात्र "कृपो रोल"[पाल सु. ८.२.१८] इत्यस्यासिद्धत्वाशङ्कापि, पूर्वत्वात् । परं हि पूर्व प्रत्यसि. खं न तु परं प्रति पूर्वम् । एवञ्च गम्लप्रभृतीनां लकारस्येत्संथाप्यना. यासेन सिध्यति। अन्यथा तु “पुषादिद्युताय्लदित" [पा०सू० ३.१.५५] इति लकारे परतः कृतेन यणादेशेन इत्संज्ञानुवादेन च शापकेन कथं चित्साधनीया स्यात् । एवम् । "इदितो नुम्" [पासू०७.१.५८] इत्या. अनुवादानाम् "ऋत्यकः" [पा०सू०६-१०-१२८] इत्यादिनिर्देशानां च सा. म्यादिकारादयोऽपि न निर्दिश्येरन् । यथाश्रुतसूत्ररीत्या तु धूमः । ऋ. कारमुचारयितुं प्रवृत्ता कुमारी करणापाटवायदा लकारमुच्चारय. ति वदनुकरणस्याप्यच्कासिद्धिः फलम् , अनुकरणानामनुकार्येणार्थ बतां सर्वत्र साधुताभ्युपगमात् । बन्येवं लवर्णस्य दीर्घा न सन्तीति व्याहन्येत । अनुकरणस्य तत्रापि सुलभत्वादिति चेत्, न्यायप्राप्तस्यापि बचनेन बाधात । इदच "न्याय्यभावात्कल्पन संझादिषु" इति वार्ति। कालभ्यते। तथाहि, "लकारोपदेशो यहच्छाशक्तिजानुकरणप्लुत्या. पर्थः" इति पूर्ववार्तिकेन लकारोपदेशस्य प्रयोजनत्रयमुक्तम् । 'दस्यल. (१) भस्य परिभाषात्वं विधिमकवाक्यतयाऽर्थबोधकत्वात् ।