________________
. लुक्सूत्रे लृकारोपदेशप्रयोजनम् । .
३९
पपन्न एवेति चेत् ? म उदाहृतज्ञापकसूत्र एवं "त्यदादीनि सर्वे: " ( पा० सु. १-२-७२) इत्येकशेषस्याकरणेन "पततदोः सुलोपः" (पा०सू०६१-१३२) इत्यादिनिशेधातिदेशस्यानित्यताज्ञापनात् ।
• अथवा "प्रावृट्ारस्का लदियां जं" (पा०सू०६-३-१५) इति सूत्रे "म पोयोनियन्मतुषु च (का० वा० ) इति वार्तिकेनेयं परिभाषा अवा अनित्यता चेत्युभयमपि ज्ञाप्यते । तथाहि का (१) र्याम् "अप्सुमन्ता. वाज्यभागी " इति श्रुतम् । "अप्सु मे सोमः" "अप्स्वग्ने सधिष्टव" इति हि तत्र मन्त्री । तत्रापशब्दादनुकरणभूतान्मतुपि 'अस्य वामीयम्' इत्या. - दाविवानुकरणस्य विभक्तित्वाभावादेव लुको प्रसङ्गादलुग्विधानमुक्तपरिभाषां ज्ञापयति । मतुबुत्पतेश्च प्रथमान्ततां विना दुर्लभत्वात्प्रातिपदिकताप्यावश्यकी । सा च प्रत्ययान्तत्वे सति दुर्लभेति प्रातिपदिकसंज्ञायामतिदेशप्रवृत्तिविरहाभ्यनुज्ञानादनित्यताऽपि सिद्धा । एतेन 'यु· ष्मदस्मत्प्रत्ययगोचरयोः' इत्यादिप्रयोगा व्याख्याताः ।
प्रकृतमनुसरामः, ऌकारानुकरणस्याप्यतिदेशेनासिद्धत्वात् 'प्राका यति" इत्यादौ "उपसर्गादिति" (पा०सु०६-७-९१ ) इत्यस्य प्रवृ तिसिद्धौ किं सावयेनेति चेत् ? न, तथा सति रेफपरत्वप्राप्तावपि ल. कारपरत्वासिद्धपा प्रकृतेऽनित्यत्वेनातिदेशा प्रवृत्तेरेव स्वयाऽपि वाच्यवात् । ननु रेफपरत्वे सिद्धेऽतिदेशाद्रेफस्य लकांरो भविष्यतीति चेत ? न, एवमपि गम्लसृप्लात्यादिस्थस्य लुकारस्यानुकरणे त्वदुक्ताति: देशोदेरुक्तिसम्भवाभावात् । तस्मात्सवर्णत्वस्यावश्यके लकारोपदेशो व्यर्थ एवेति चेत् ?
1
अत्रोच्यते, न तावद्वार्त्तिकं दृष्ट्वा सुत्रकृतः प्रवृत्तिः । आरब्धेऽपि वा सिंके ऋकारऌकारयोः सावर्ण्यस्यानित्यतां शापयितुं कर्त्तव्य एवं लकारोपदेशः । तेन 'क्ल ३तशिखा' इत्यत्र "गुरोरनृतः” (०सु०८-२-८६) इति प्लुतः सिध्यति । अन्यथा 'अनृत:' इति निषेधः स्यात् ऋकारेण ऌकारग्रहणातु । 'क्लुप्यमानः, चलाक्लुप्यमानः' इत्यादी "वर्णाश: स्य" (का०वा० ) इस्योपसंख्या निकणत्वस्याप्रवृत्तिस्तु क्षुम्नादित्वेनापि सुवचा । अन्यथा प्रक्लृप्यमानादौ " कृत्यचः " ( पा०सु०८-४-२९) इति णत्वस्य दुर्वारत्वात् ।
इदं त्ववधेयम्, वार्त्तिकमते सवर्णेऽण्ग्रहणमपरिभाष्यमिति सिद्धा. न्ताहकारे लकारसाधारणजातिविरहेण कृतिप्रहणासम्भवाच्च 'माल्कारियति' इत्यत्र कार्यानिर्वाहस्तदवस्थः । सावर्ण्यविधिस्तु सवर्णदीर्घे (१) करीरीष्ट्रियकरणे ।