________________
"ऋलसूत्रे लुकारोपदेशप्रयोजनम् । तकाय देहि' इति यहच्छाशब्दः, 'कुमारी लजु इत्याह' इत्यशक्तिजानु. करणम्, 'प्लुतद्विर्वचनस्वरिताश्च प्लुत्यादयः, एतदर्थ लकारोपदेश इति हि तस्यार्थः । तत्र प्रथमप्रयोजननिराकरणायेदं वार्तिकम-"न्या. य्यभावात्" इति । अस्यार्थ:-ऋतिस्तावद् "ऋतेरीय" (पासू० ३-१-२९) इतिनिर्दिष्टः सौत्रो धातुः, तस्मादौणादिकः क्षुन् । तत्र येवं सूत्रितम्-"क्युन् शिल्पिसंशयोरपूर्वस्यापि" ( उ००२-२००) इति । शिल्पिन्यभिधेये संज्ञायां च सोपपदानिरुपपदाच धातोः क्वुन् स्यादित्यर्थः । रजकः, तक्षकः, इत्यादि शिल्पिनि; चरकः, भषकः, कटकं, कनकम्, इत्यादि संशायामुदाहरणम् । तथा च ऋतकशब्द: शास्त्रानुगतत्वान्न्याय्यः । तत्सद्भावात्स एव संशा । तथाच "कृतं कुर्यान तद्धितम्" इत्यादि गृह्यस्मृतिरप्यनुकूलिता भवतीति । एवं वदता शास्त्राननुगतं देशभाषया यत् 'कूर्ची' इत्यादि नाम क्रियते तद. साविति स्फुटीकृतम् । आदिशब्दादनुकरणेऽपि शिष्टानुरोधं दर्शयता 'लवर्णस्य दीर्घा न सन्ति' इति शास्त्रमर्यादामुल्लङ्य क्रियमाणस्य दीर्घानुकरणस्याप्यसाधुता दर्शिता । तस्माघुिभादिभ्यः कूचीमा जच्यादीनामिव गाधीगोण्याधनुकरणेभ्यो दीर्घलवर्णानुकरणस्थापि न्यायतो न किञ्चिद्वैलक्षण्यं, किन्तु वाचनिकमिति स्थितम् । मन्त्रशा. ने तु मातृकान्यासादौ दीर्घ लवर्णों यद्यपि स्वीकृतस्तथापि प्रातिशा. ख्यन्यायेन अन्यत्रासौ नोपयुज्यत एवेत्यवधेयम्। एवं वचन्त्यादीनामपि शिष्टैरनङ्गीकृतानां न्यायसाम्यादसाधुतोका । तथा चाहु:-"नहि व. चिरन्तिपरः प्रयुज्यते" इति । एषश्च "न्याय्यभावात्' इति वार्तिकेन पूर्ववार्तिकोक्तप्रयोजनत्रयमध्ये प्रथमप्रयोजनं निराकृतम् । लतकश्चा. साधुरेव । इदं च 'त्रयीशब्दानां प्रवृत्तिर्न सन्ति यदृच्छा शब्दा' इति प्रक्षेणोक्तम् । पक्षान्तरैरपि हि परिहारा भवन्तीति भाष्यकारः । एत. द्रन्थपर्यालोचनया तु चतुष्टयोति पक्षे लतकादयोऽपि टिघुमादिव. साध्वसाधुबहिर्भूताः साधव एव न तु टिघुभादिविलक्षणा इति लभ्यते । अन्यथा हि पक्षान्तरिति न यादिति । न च गृह्यस्मृतिविरोधः, तावताऽपि कृतं कुर्यान तद्धितमिति गृह्यमुल्लध्य कृतस्याप्यौप. गवादेरिव शब्दसाधुताभ्युपगमे बाधकाभावात् । पुरुषस्तु साधूनपि प्रयुखानो देवब्राह्मणादिनिन्दकवद्धर्मशास्त्रोलचनात्प्रत्यवैतीत्यन्यदतव । - यत्तु द्वितीयप्रयोजननिराकरणाथै वार्तिकम्-"अनुकरणं शिष्टा. शिष्टाप्रतिषिद्धेषु" इति, तस्यायमर्थः-शिष्टस्य साधोरनुकरणं साध्वे. व । अशिष्टं च तदप्रतिषिद्धं च साध्वसाधुवहिर्भूतं टिघुभादि तस्यानुः