________________
४२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिकेकरणमपि ताडगेव, अर्थादसाधोरनुकरणमप्यसाधेवेति । इदं तु भाष्ये दूषितमेव, हेलयो हेलय इत्यादीनां शिष्टपरिगृहीतानामसाधुतायां बीजाभावात् । नापशब्दवाचकत्वमात्रेण तथास्वम, अपशब्द इत्यः स्याप्यसाधुतापत्तेः । न च "प्रकृतिवदनुकरणम्" (पासू०३६) इत्य मेन साधुताऽतिदेशः, अशास्त्रीयस्यातिदेशायोगादिति दिक् । तस्मा. द्वार्तिकता दूषितमपि द्वितीयप्रयोजनं भाग्यरीत्या स्थितम । - यदपि तृतीयप्रयोजननिराकरणपरं वार्तिकम्-"एकदेशविकृतस्याः नन्यत्वात् प्लुत्यादयः" इति । तस्यायमर्थ:-"नुविधिलादेशविनामेषु प्रतिविधानम्" इतिवक्ष्यमाणत्वाहकारैकदेशस्य रेफस्य लत्वे कृते एकदेशविकृतन्यायनाचकार्यसिद्धिरिति । न चैवमनृत इति प्रतिषेधाप. त्तिः, अरवत इति न्यासात् । नोकदेशविकृतन्यायेन रेफवत्ताप्याया। ति । लोकेपि हि छिन्नपुच्छस्य पुच्छवत्त्वप्रयुक्तकार्य नायात्येव । न चैवं होतृकारादेर्दीर्घस्याप्यरवत इति प्लुतप्रतिषेधापत्तिः, -हस्वस्य रवतो नेति न्यासात् । किन्वेवं सति एकस्य लकारस्य प्रत्याख्यानाय सूत्रभङ्गाश्रयणे विपरीतमेव गौरवमिति । तदेतदाह भाष्यकार:-"सेयं महतो वंशस्तम्बालट्वाऽनुकृप्यते” इति । लट्वा पक्षिविशेषः फल. विशेषो वा । “(१)लट लौल्ये" ( भ्वा०प० । इति धातोः "अशूप्रुषिलटिकणिखटिविशिभ्यः कन्" ( उ०पू०१-१५७ ) इत्यौणादिकः कन् । "नेड् पशि कृति" ( पा०सू०७-१-८) इतीडभावः ।
लट्वा करञ्जभेदे स्यात्फलेऽवधे खगान्तरे । इति विश्वः ।
ननु "कपो रो लः" (पासू०८-२-१८) इति सूत्रम् "अ अ" (पासू० ४-४-६८ ) इत्यस्मात्पूर्वमस्तु । एवञ्च लत्वस्यासिद्धत्वादेव प्लुत्यादयः सेत्स्यन्तीति चेत् ? न, एवं हि सति "प्रो यङि" (पासू०८०२-२०) इत्यस्याप्युत्कर्षः स्यात्ततश्च लत्वस्यासिद्धतया 'निजेगिल्यते' इत्यत्र "ह. लि च" (पासु०८-२-७७) इति दीर्घः स्यात् । ननु बहुचप्रातिशा. ख्ये "ऋकारलकारावथषष्ठोमा जिड्वामूलीयाः" (ऋप्रा०१-८) इति अलवर्णयोः स्थानसाम्योकेस्तद्रीत्या प्रहणकशास्त्रेणैव निर्वाहाद ल. कारोपदशो मास्त्विति चेत् ? न, उतरीत्या कलवर्णयोः सावोंपसंख्यान परं प्रत्याख्यायताम् लकारोपदेशस्तूकरीत्या क्लसशिखे प्लुतसिद्धये सावानित्यतां शापयितुं कर्त्तव्य एवेति दिक् ।
(१) 'लट बाल्ये' इति कौमुदी पाठः ।