________________
विधिशेषप्रकरणे सर्वनामसंशाप्रकरणम् ।
नामानि तान्येव सर्वादीनि न वितराण्यपीति व्याख्यानात् । यथा "तिङो गोत्रादीनि कुत्सनाभीक्षण्ययोः" (पा०सू०८-१-२७) इति सूत्रे कुत्सनाभीक्षण्ययोरिति योगं विभज्य गोत्रादीनीत्यनुवत्यैतयोरर्थयोर्यानि वर्तन्ते तान्येव गोत्रादीनि इति गणशुद्धिपरतया व्याख्यास्यते तेन "चनचिदिव गोत्रादितद्धिताम्रडितेष्वगतेः' (पासू०८-१-५७) "कुत्सने च सुप्यगोत्रादौ" (पा०सू०८-१-६९) इति सूत्रयोरपि विशिष्टार्थाना. मेव गोत्रादीनां ग्रहणं तथहापि । ननूक्तरीत्या "त्यं दादीनामः" (पासू० ७-२-१०२) इत्याद्यन्तर्गणकार्य सिद्ध्तु “सर्वनाम्नः स्मै" (पासु०७१-१४) इत्यादिकं तु कृत्स्नसकलादिशब्दवतिव्याप्तं स्यादिति चेत् ? न, गणपाठसामर्थ्यात्तत्र पठितानामेव ग्रहणात् । एतावानेव हि भेदः । यत्पूर्वोक्त पक्षे संज्ञा विधेया गणशुद्धिस्त्वार्थिकी अस्मिस्तु पक्षे गणशु. द्धिाशाब्दी कृत्स्नादिव्यावृत्तिस्त्वर्थादिति । अथवोभयमनेन क्रियते पाठशुद्धिः संज्ञा च, तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणात् । तत्र सह विवक्षां विनाऽपि वाचनिक एकशेषः । आकृतिपक्षे हि प्रत्याख्यातं सरूपसूत्रम् "इको गुणवृद्धी" (पासू०१-१-३) इत्यादि यच्छास्त्रप्रक्रि यार्थ लत्सहविवक्षां विनाऽप्येकशेषं विधत्ते । तदित्थं पश्चापि पक्षाः स्थिताः । संक्षाभूतानां व्यावृत्तिस्तु गौणमुख्यन्यायेनापि सिद्ध्यति । न चासौ पदकार्येष्वेवेति वाच्यम् , विशिष्टरूपोपादाने सर्वत्र तत्प्रवृत्तेरि. त्युपपादितमोत्सूत्रे । वार्तिकरीत्या त्वेकसंझाधिकारे सर्वनामसंज्ञान न्तरमेकद्रव्यनिवेशिनी संक्षेति संज्ञासंज्ञया सर्वनामसंज्ञा बाध्यते इ. त्यपि समाधानान्तरं बोद्धव्यम् । यद्वा "पूर्वपरावर" इति गणसुत्रेऽसं. प्रायामिति योग विभज्य पूर्वोत्तरयोः शेषो व्याख्येयः। उक्ताः सर्वादयो वक्ष्यमाणाः स्वादयश्चासंशायामिति । तस्मादुपसर्जनव्यावृत्तिरेवान्वः र्थसंज्ञाश्रयणस्य मुख्यं फलम् । ननु "अनुपसर्जनात्” (पासू०४-१-१४ इति योग प्रकारान्तरेण व्याख्याय तद्वलेनैवान्तर्गणकार्य वारितं भाज्ये । तद्यथा-'अनुपसर्जन' इति लुप्तषष्ठीकं पदम् । अ आदिति च च्छेदः। अश्व अच्च तयोः समाहारः आत् । अकारात्परौ अ अत् इत्यादेशौ यत्र क्रियेते तत्रानुपसर्जनस्य ग्रहणमिति परिभाषार्थः । तेन त्यदाद्यत्वम् "अडतरादिभ्यः" (पासू०७-१-२५) इत्यदभावश्च गौणतायां न भ. वति । अकारात्परत्वेन विशेषणत्वं किम् ? “पश्चम्या अत्" (पा०स०७१-३१) युष्मानतिक्रान्तेभ्योऽतियुष्मत् । “एकवचनस्य च" (पासू० ७-१-३२] युष्माननिकान्तादतियुग्मत् । न घयमकारात्परों विधीयते इति । तथा चोपसर्जनव्यावृत्तेरप्यन्यथासिद्धौ किं महासंक्षयेति चेत् ?