________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिके
न, 'अतिसर्वाय' इत्यादिवारणस्य तदेकलाध्यत्वात् । न हीदम् "अनुप. सर्जनात्" (पा०४०४-१-१४) इत्यनेन साधयितुं शक्यते । एतदपरि. तोषादेव हि भाज्ये पक्षान्तराश्रयणमिति दिक् । एवञ्च "अनुपसर्ज. ना" (पा०सु०४-१-१४) इति सूत्रं परिभाषात्वेनापि नोपयुज्यते इत्यः र्थात्प्रत्याख्यानमेव भवतीत्यवधयम् ।
स्यादेतत्, कौम्भकारेयसिद्धये सूत्रमारम्भणीयम् तत्र हि कुम्भः कारीशम्दादेव ढगुत्पादयितव्यः। अन्यथा कुम्भेत्युकारस्य वृद्धिर्न स्यात्। तथाच विशिष्टस्य स्त्रीप्रत्ययान्तताप्येष्टव्या । सा च तदैव निर्वहति । यदि "टिड्ढाणम्" (पा०सू०४-१-१५) इति सूत्रे प्रत्यय ग्रहणपरिभाष. याणित्यनेनाणन्तग्रहणे तेन च प्रातिपदिकविशेषणादण्णन्तान्तं प्रकृ. तिः स्यात । तच "समासप्रत्ययविधौ प्रतिषेधः" (काल्वा०) इति "ग्रहणवता प्रातिपदिकेन तदन्तविधिन' (प०भा०३१) इति च प्रति. षेधाद् दुर्लभम् । "अनुपसर्जनात्"(पासू०४-१-१४) इत्युपसर्जननिषेध. सामर्थ्यानु प्रधानेन तदन्तविधौ शापिते कौम्भकारयः सिद्धतीति स्पष्टमेव । न च "कृद्रहणे गतिकारकपूर्वस्यापि" (प०भा०२८) इति परिभाषया कुम्भकारशब्दादेव स्त्रीप्रत्ययोऽस्त्विति वाच्यम्, अणिति हि तद्धितोऽपि गृह्यते । औपगवीति यथा। "कद्हणे" (प०भा०२८) इति परिभाषा तु कृन्मात्रग्रहणे प्रवर्तते न तु कृदकृद्रहणेऽपि एवमर्थमेवेदं सूत्रमिति भाग्यकृतैव चतुर्थे स्थापयिष्यते । तत्कथ. मिहोक्तम् “अनुपसर्जनात्" (पा०सू०४-१-१४) इत्ययं योगः प्रत्या. ख्यायते इति ? ___ अत्रोच्यते, चतुर्थे सूत्रकाराभिप्रायवर्णनमात्रं करिष्यते । निष्कर्षे तु क्रियमाणे सूत्रवैयर्थ्यमवायातीत्याशयनेह भगवतोतं प्रत्याख्यायते इति । तथाहि, कारशब्दान्ङीबुत्पत्तावपि कौम्भकारेयः सिध्यत्येव "ज्यङः सम्प्रसारणम्" (पा०सू०६-१-१३) इत्यत्र भाष्यकृता पठिष्यमा माणया वाचनिक्या "स्त्र प्रत्यये चानुपसर्जनेन'' (प०भा०२६) इति परिभाषयाऽनुपसर्जने स्त्रीप्रत्यये तदादिनियमनिषधन कुम्भकारीश. ब्दादगुत्पत्तेः। अत एव हि 'परमकाषिगन्धीपुत्रः इत्यत्र प्यङन्त. स्योच्यमानं सम्प्रसारणं परमकारीषगन्ध्याशब्दस्यपि भवत्येव । न चैवम् 'अतिकारीषगन्ध्यापुत्रः' इत्यादावतिप्रसङ्गः । "अनुपसर्जन इ. त्युक्तत्वेनोपसर्जने तदादिनियमसत्वात्। न चैवम् 'अर्धपिप्पली' इत्या. दो हल्ङयादिलोपो न स्यादिति वाच्यम्, हल्ङयादिसूत्रे दीर्घग्रहण. सामर्थ्यन तत्रोपसर्जनेनापि तदादिनियमो नास्तीति ज्ञापितत्वात् ।